SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। अथ धनदण्ड-संख्या। अत्र शङ्खलिखितौ, चतुर्विंशतिरेकनवतिश्चेति प्रथम-साहसः। द्विशतः पञ्चशतश्चेति मध्यमः, षट्शतः साहस्रश्चेति उत्तमः । यथासारापकारं सर्वेषामानुपूर्वेण । चतुर्विशत्यादिरेकनवतिपर्यन्तः प्रथम-साहसाख्यो दण्डः एवं दिशतादावपि । यथासारापकारमिति सारो धनं दण्डस्य अपकारोऽपराधस्तस्यैव तदनुसारेण तयोर्लाघवगौरवाभ्यां प्रथमादिसाहसविकल्प इत्यर्थः । एवञ्च नारद-याज्ञवल्क्यादिवचने प्रथमादिसाहसेषु न्यूनाधिकसंख्याविसम्बादो व्याख्यातः। तस्य दण्ड्यगतवित्तापराधलाघवगौरववैचित्र्येण सामञ्जस्यात् । तदक्ते दण्डे तदुक्तद्रव्यसंख्या ग्राह्येति व्यवस्थोपगमाहा । तत्र नारदः, चत्वारिंशाऽवरः पूर्वः परः घणवतिर्भवेत् । शतानि पञ्च 'तु परो मध्यमो दिशताऽवरः ॥ साहस स्वत्तमो ज्ञेयः स तु पञ्चशताऽवरः । चतुर्विंशावर इति क्वचित् पाठः । १ क पुस्तके पञ्च त्वपरः। . २ घ साहखस्तूत्तमः स्मृतः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy