SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । तथा, अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयो महदाप्नोति नरकच्चैव गच्छति ॥ तथा,यावानवध्यस्य बधे तावान् बध्यस्य मोक्षणे । अधर्मो नृपतेदृष्टो धर्मश्चैव नियच्छतः ॥ नियच्छतः बध्यस्य बधमबध्यस्याबधञ्च कुव॑तः । कात्यायनः,राजानो मन्त्रिणश्चैव विशेषादेनमाप्नुयुः । अशासनात्तु पापानां नतानां दण्डधारणात् ॥ एनमिति छान्दसप्रयोगस्तेन पापमित्यर्थः। अथवा प्रक्रान्तमधर्ममित्यर्थः। क्वचिदेन इति ऋजुरेव पाठः । नतानां विनीतानां अदण्ड्यानामिति यावत् । वशिष्ठः, दण्डोत्सर्गे राजैकरात्रमुपवसेत् , त्रिरात्रं पुरोहितः । कृच्छ्रमदण्डने पुरोहितस्विराचं राजा च। अदण्डन इत्यवादण्ड्यदण्डन इति क्वचित् पाठः । प्रकृतपाठेऽपि स एवार्थः। यथाश्रुतस्य दण्डोत्सर्गेणोक्तत्वात्। तेनानुपदेशे विरात्रोपवासो विपरौतोपदेशे कृच्छं पुरोहितस्य । अदण्डने एकरात्रमुपवासो राज्ञः । चकारात् सभ्यानामपि चिराचोपवासः। १ ग पुस्तके कात्यायनपदं नास्ति । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy