SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - दण्ड्यादण्डे दोषाः । बलिमित्यप्युपलक्षणम् । यदाह मनुरेव – योऽरक्षन् बलिमादत्ते करं शुल्कञ्च पार्थिवः । प्रतिभोगश्च दण्डश्च सः सद्यो' नरकं व्रजेत् ॥ बलिर्धान्यादेः षड्भागादिः । करो ग्रामपुरादिवासिभ्यः प्रतिमासग्राह्यम् । शुल्कं बणिगादिभ्यो द्वादशभागादिः । प्रतिभोगः फलकुसुमशाकाद्युपायनं प्रात्यहिकम् । प्रौतिभोगमिति क्वचित्पाठः । तत्र प्रौत्या । भोगार्थमुपढौकितं फलादौत्यर्थः । दण्डः प्रसिद्धः । तथा, सर्व्वतो धर्म्मषड्भागो राज्ञो भवति रक्षणात् । धर्मादपि षड्भागो भवत्यस्य ह्यरक्षणात् ॥ तथा, दण्डो हि सुमहत्तेजो दुईरश्वाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ ५ ततो दुर्गश्व राष्ट्रश्च मुनीन् देवांश्च पौड़येत् । देवानां पौडा साधूपसुतैः, साधुभिर्हविः प्रदानाभावात् । प्रदानजीवना देवा इति स्मरणात् । मनुः,— अधर्म्मदण्डनं लोके यशोनं कौर्त्तिनाशनम् । जीवतः ख्यातिर्यो मृतस्य ख्यातिः कीर्त्तिरिति मनुटौकायां कुल्लूकभट्टः । यशो बहुभिर्गुणानां ज्ञानं कीर्त्तिस्तु कथनमिति नारायणः । १ क पुस्तके स दण्डाः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy