SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०८ www.kobatirth.org दण्डविवेकः । Acharya Shri Kailassagarsuri Gyanmandir अथ जानतः साक्षिणः कौटिल्यादनिगदतो दण्डः । तत्र मनुः,— चिपक्षादब्रुवन् साक्ष्यमृणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्व्वं दशवन्धञ्च सर्व्वतः ॥ अगद इति अपरिहरणौयप्रतिवन्धकाभावपरं दशवन्धो दशमांशः । तेन यः पृव्यमानो वाधकं विना पक्ष येणापि न ब्रते स दशमांशसहितमृणं प्राप्नुयात् तस्य दाता भवेदित्यर्थः । तत्र दशमांशः कलास्थान इति ग्रहेश्वरमिश्राः । तेन राज्ञे दण्डोऽयमिति भ्रमः । यत्तु - अब्रुवन् हि नरः साक्ष्यमृणं सदशवन्धकम् । राज्ञा सर्व्वं प्रदाप्यः षट्चत्वारिंशत्तमेऽहनि ॥ इत्यत्र मिताक्षरायां व्याख्यातम् । सर्व्वं सहकिमृणं धनिने दाप्यः सदशमांशश्च राज्ञो भवति । राज्ञाऽधमर्णिको दाप्यः साधितादंशकं शतमित्युक्तत्वात् । इति चिन्त्यम् । राज्ञेत्यादि वाक्यस्य यत्र राज्ञो धनसाधनं तद्विषयत्वात् साधितादिति श्रवणात् । यत्र धनिको दुर्वलः स्वयमशक्नुवन् राज्ञा साधितार्थो भवति तचाधमर्णस्य दण्डमाहेति स्वयमेतस्यावतारणात् । १ क राजा । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy