SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org व्यवहारविषयदण्डः । Acharya Shri Kailassagarsuri Gyanmandir अथ कात्यायनः, - श्रतस्त्ववमन्येत यः शक्तो राजशासनम् । तस्य कुर्य्यान्नृपो दण्डं विधिदृष्टेन कर्मणा ॥ हौने कर्म्मणि पञ्चाशन्मध्येऽपि स्यात् शतावरः । गुरुकार्येषु दण्डः स्यान्नित्यं पञ्चशतावरः ॥ अत्र व्यासः, परानौकहते देशे दुर्भिक्षे व्याधिपीडिते । कुव्र्वीत पुनराह्वानं न तु दण्डं प्रकल्पयेत् ॥ ३३५ अथ याज्ञवल्क्यः, अवध्यं यश्च वध्नाति यश्च वध्यं प्रमुञ्चति । अप्राप्तव्यवहारश्च स दाप्यो दण्डमुत्तमम् ॥ अवध्यं वन्धनानर्हम् । अप्राप्तव्यवहारं व्यवहारार्थमानौतमनिर्व्वाहितव्यवहारश्च । तं न वनौयात्, न मुच्चेत् । तथाविधं वध्नन् मुञ्चन् वा उत्तमसाहसं दण्ड्य इत्यर्थः । विष्णुः, दण्ड्यमुन्मोचयन् दण्डाद्विगुणं दण्डमाहरेत्' । नियुक्तश्चाप्यदण्ड्यानां दण्डकारौ नराधमः ॥ , दण्डादवरुवस्य यो दण्डस्तस्मात् नियुक्तो राजपुरुषः । लग्नकं रक्षेद र्थिप्रत्यर्थिनामिति वचनात् । यश्च दण्डनाधिकृतो दण्डानर्हाद्दण्डत्वेन यावगृह्णाति स तद्दिगुणं दाप्य इत्यर्थः । अवध्योन्मोचने वधदण्डस्य १ ६ पुस्तके व्यावहेत् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy