SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साहसदगडः। ३१६ कात्यायनः, श्रान्तान् क्षुधार्तान् तृषितानकाले वाहयेत्तु यः। खरगोमहिषोष्ट्रादौन प्राप्नुयात् पूर्वसाहसम् ॥ अथात्मघाते अङ्गिराः, आत्मानं घातयेद् यस्तु बजादिभिरुपक्रमैः । मृतोऽमेध्येन लेप्तव्यो जौवेच्चेद्दिशतो दमः ॥ अन्येष्वप्येवंजातीयेष्वयं दण्ड इति प्रतिभाति न्यायसाम्यात्। तानाह मनुः, जलाग्न्युइन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः। विषप्रतपनप्रायःशस्त्रघातच्युताश्च ये ॥ सर्वे ते प्रत्यवसिताः सवलोकबहिष्कृताः। यत्त प्रव्रज्यावसितानां प्रवासनाङ्कन-दासीकरणादि पूर्वमुक्तं तत् कामचारविषयमिदन्वशक्तिविषयमिति न विरोधः। अथ पुत्रादिहौनाया धनं गृह्णतः परस्य दण्डः । तर्जुदायमित्युपक्रम्य कात्यायनः, अपुत्रा शयनं भर्तः पालयन्तौ व्रते स्थिता । भुञ्जौतामरणात् क्षान्ता दायादा ऊर्द्धमाप्नुयुः ॥ मनुः,वशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy