SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। ग्रहणाद्युत्थापनरूपासु चासदृशीषु कर्तुर्दिशतो दम इत्यर्थः। अभिचार्यमाणस्य मरणाभावपक्षे अयं दण्डो मरणे तु मनुष्यमारणदण्ड एवेति मनुटौकायां कुल्लूकभट्टः । __ प्रकाशतस्करप्रकरणे मूलकर्म वशीकरणं धन-ग्रहणार्थञ्च तस्य प्रयोगः। इह तु परमारणाद्यर्थं भेषजादिप्रयोगः, अनाप्तैरिति स्वरसादिति प्रकरणभेदः। नारायणस्त्वाह अनाप्तः-असम्बन्धौ। मूलादिप्रयोगरूपं वशीकरणम्। तस्मिन्नसम्बन्धिविषये कृते दोषो न भादाविति। अथ अदुष्टदूषणादौ मनुः, अदूषितानां द्रव्याणां दूषणे भेदने तथा । मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ दूषणे अपद्रव्यसंसर्गेण दुष्टत्वापादने। भेदने येषां भेदमात्रेणैव विघटनं तेषां भेदे। मणौनां मुक्तादौनामपवेधे दोषावहे वेधकरणे। अथ जारापलापादौ याज्ञवल्क्यः,जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चन् तदेवाष्टगुणीकृतम् ॥ उपजीव्य उपादाय, यो जारं कुलभ्रंशादिभयात् स्वस्त्रीदोषमपहुवानश्चौर इत्यपहुते पञ्चपणशतानि दाप्यः । यस्तु तस्मादुत्कोचादिरूपं धनं गृहीत्वा तं परित्यजति स तदुत्कोचधनादष्टगुणं दाप्य इत्यर्थः। इति हलायुधचण्डेश्वरादयः। पञ्चविंशतिमष्टगुणामिति मिश्राः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy