SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साहसमाह। २६६ दाप्याः। कुद्यस्य पुनःसम्यादनार्थञ्च धनं स्वामिने दद्यादित्युक्तम् । हलायुधोऽप्याह,कुद्याभिघातमात्रे पञ्चपणाः, विदारणे दशपणाः, द्वैधीकरणे विंशतिः। अवपातने तु समुच्चित एवायं दण्डः । अभिहतादिदानञ्च स्वामिने सर्वत्रेति। युक्तच्चैतत् नैयायिकत्वात् । कामधेन्वादावपि तद्ययमिति पाठः। कात्यायनः,प्राकारं भेदयेद्यस्तु पातयेच्छातयेत वा। वनौयादथवा मार्ग प्राप्नुयात् पूर्वसाहसम् ॥ प्राकारः पाषाणेष्टकादिकृता इतिः । विष्णुः,गृहकुद्यादिभेत्ता मध्यमसाहसम् । तच्च योजयेत् । मनुः,प्राकारस्यावभेत्तारं परिखाणाञ्च पूरकम् । हाराणाञ्चैव भेत्तारं क्षिप्रमेव प्रमापयेत् ॥ हाराणां दारमार्गादौनामिति नारायणः । अत्र प्रमापयेदित्यत्र मनुटीकायां प्रवासयेदिति कुल्लकभट्टेन पठितम् । देशान्निवासयेदिति च व्याख्यातम् । प्राकारभेदस्याल्यानल्पभावभेदेन दण्डव्यवस्था। भिन्नप्रतिसंस्कारश्च । गृहकुद्यादिवदवापि द्रष्टव्यो न्यायसाम्यात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy