SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रनहाधिगताधिकारः। अथ तथापि परनिहिते स्वामिस्वत्वनित्तिः कुत इति चेत् अज्ञायमानस्वामिको निधिईिविधः। नष्टस्वामिको लुप्तस्वामिकश्चेति। तयोराये स्वाम्यभावादेव निविष्टकत्वम् अतस्तृणादिवदेव तत्र परिग्रहात्' स्वाम्यम् । द्वितीये तु प्रच्छन्नस्य स्वामिनोऽननुसन्धानाद्यनुमितादुपेक्षणादेव स्वत्वनिवृत्तिः। अस्तु वा प्रनष्टाधिगतस्थलवदन्यस्वामिकस्यैव विनियोगः, अस्मादेव वचनात् । न चैवं वाक्यभेदायुगपत्तियविरोधः स्यादितिवाच्यम्। उक्तादावपि विनियोगमावस्यैव विधानात्। एवञ्च उपस्थिते स्वामिनि प्रनष्टस्यैव निधेः परावर्त्तनम्। अत एव मिताक्षराव्याख्यानं तदुक्तभागभेदविकल्पपरिकल्पनञ्च घटते। ननु स्तेयप्रतिषेधशास्त्रेण विरुवमिदं विनियोगवचनमिति चेन्न अर्थशास्त्रत्वात् गोभक्षितशस्यग्रहणस्योशनसा निषेधेऽपि गोतमेन विधानवत्, खदारनियमे शङ्खलिखिताभ्यामुक्तऽपि नारदेन परानवरुवस्वदासौगमनाभ्यनुज्ञानवत् । ब्राह्मणस्याहिंस्यत्वे मनुनोतऽपि कात्यायनेन आततायिनो हिंसाभ्यनुज्ञानवत्, मातुलकन्याया मावसपिण्डत्वेन शातातपादिभिरुवहनप्रतिषेधेऽपि वृहस्पतिना दाक्षिणात्यानां तत्प्रतिपादनवच्च । तस्मादशनः-शङ्ख-लिखित-मनु-शातातपादिवचनानां धर्मशास्त्रत्वेन बलवत्त्वेऽपि यथा गोतम-नारद-कात्यायन १ ७ पुस्तके परिग्रहेण। २७ पुस्तके-देवेतरखत्वनिवृत्तिः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy