SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। तब यद्यपि नारदवाक्ये सर्वेषामिति षश्चन्तादपस्थितेषु स्वामिषु ब्राह्मणाहते इत्यनेन ब्राह्मणस्वामिकस्य निधेः राजगामित्वं प्रतिषिध्यते, न तु ब्राह्मणाधिगतस्य याज्ञवल्क्यवाक्ये च ब्राह्मणस्य सर्वप्रभुत्वश्रुतिरर्थवादमात्र सर्वस्वं ब्राह्मणस्येदमित्यादिवत् । अन्यथा बहुविरोधोऽतिप्रसङ्गश्च स्यादतो न तदभिधानवैफल्यापत्तेरपि परनिधिपरत्वं कल्प्यते। तथापि राजा लश्चेत्यत्र निधिपदस्य परनिधिपरत्वधौव्यादादद्यादित्यचापि तस्यैवान्वयत उपस्थितत्वात् । स च ब्राह्मणस्वामिकोऽपि यदि तत्त्वेन न निश्चौयते तदा तं राजा हरेदेव । अन्यथा अनध्यवसायेनापरिग्रहे निधिग्राहकानेकवचनवैफल्यात् । अथ यदि निधिपात्रलिखनादा दैवज्ञप्रश्नादेवा तत्तथावध्रियते तदा राजापि न हरेत् । ब्राह्मणाहते इति नारदवचनात्। तस्मादेनं प्राप्य ब्राह्मणेभ्यो दद्यात् ब्रह्मस्वं ब्राह्मणो नयेदिति सम्भयसमुत्थानप्रकरणीयबृहस्पतिवचनसंवादात् ततः सजातिरित्यनपत्यधनप्रकरणौयनारदवचनस्वरसाच्च । नन्वेवं परस्वादानं ब्राह्मणस्य स्यादिति चेत् न अस्मादेव वचनात् परकीयेऽपि निधौ तस्य स्वत्त्वावगमात्। स्वामी रिक्थक्रयविभागपरिग्रहाधिगमेविति। गोतमस्मरणाच्च । अधिगमो निध्यादेः प्राप्तिरिति निबन्धेषु व्याख्यानात्। नन्वेवमधिगमाविशेषेऽपि विष्णुवाक्ये भागभेदप्रतिपादनं द्रष्टव्यमिति चेत् न वाचनिकत्वादेव सुघटत्वात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy