SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकीर्णदण्डः । बृहस्पतिः — सम्भूयैकमतं कृत्वा राजभाव्यं हरन्ति ये । ते तद्दशगुणं' दाप्या वणिजश्च पलायिनः ॥ राजभाव्यं राज्ञे देयम् । पितापुचविवाद इति । Acharya Shri Kailassagarsuri Gyanmandir ― यद्यपि पिचा सह विवादे शृङ्गग्राहिकया साक्षाद्दण्डो न श्रूयते तथापि साक्षिप्रकरणे पिचा विवदमानचेति निन्दादर्शनान्निषेधाभिगमे नियमातिक्रमणप्रयुक्तः साहसोक्तः सामान्यदण्डः पितुर्गुणवत्त्वागुणवत्त्वतारतम्येन व्यवस्थितो द्रष्टव्यः । एवञ्चायं साक्ष्य एवोदाहियते । तत्र विष्णुः– पितापुत्र विरोधे साक्षिणां दशपणो दण्डः । यस्तयोः सान्तरौयः स्यात्तस्योत्तमसाहसम् । सान्तरीयः स्यादिति तयोर्मध्यगो भूत्वा विरोधमुत्पादयतौत्यर्थः । कामधेनौ यस्तयोरन्तरे स्यादिति पठितम् । याज्ञवल्क्यः, २६६ पितापुत्रविरोधे तु साक्षिणस्त्रिपणो दमः । अन्तरे च तयोर्यः स्यात्तस्याप्यष्टशतो दमः ॥ अष्टौ शतानि पणा यस्मिन् दमे दौयन्ते सोऽष्टशतः । १ मूले - ते तदष्टगुणं इति पाठः । २ क व पुस्तकदये पिटपुत्र ३ क्वचित् पाठः – साहसः । ४ क पुस्तके व्यष्टपणः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy