SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ प्रकीर्णदण्डः। तत्र संग्रहः, उद्दिष्टाः केचिदृषिभिबिभजद्भिः प्रकीर्णकम् । प्रकम्य साहसं केचिदुक्तास्तैरेवमुक्तकाः ॥ विवादविषये क्वापि व्यवहारपदे क्वचित् । प्रसङ्गेनोपदिष्टास्तैः केचिदेवञ्चतुर्विधाः ॥ तेऽमौ चतुर्बु शेषेषु' वर्गेषु परिनिष्ठिताः । प्रथमे तद्यवस्थेति पञ्चवर्गाः प्रकीर्णके ॥ सोऽयं विभागः प्रतिपत्तिवैषम्यार्थमुत्सर्ग'माश्रित्य कृत इति दिवाणं सङ्करेऽपि न दोषः। विवादविषयश्चात्र ऋणादानादि तसमाह्वयान्तोऽष्टादशविधो मनूतो विवक्षितः। तेन निबन्धेषु-तत्समभिव्याहृतस्यापि तत्शुल्कादेर्बहिर्भावः प्रथमे च वर्ग तस्य प्रवेशः कात्यायनादिभिस्तबाद्देशात्तदन्तर्गतस्यापि स्तेयादेस्तदहि वः प्रकीर्णलक्षणाभावादेव । तत्र बृहस्पतिः,एष वादिकृतः प्रोक्तो व्यवहारः समासतः । नृपाश्रयं प्रवक्ष्यामि व्यवहारं प्रकीर्णकम् ॥ यद्यपि मनुष्यमारणादिव्यवहारा अपि नृपाश्रिता एव तथापि तेषु वादिप्रतिवादिभ्यां स्व-स्व-पक्षेषु दर्शितेषु विचार्य तयोरेकतरस्यापराधिनो राजानुशासनम् । १ क चतुर्वशेषेषु । २ क उत्सर्गमात्रम् । ३ क राज्ञोऽनुशासनम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy