SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दण्डपारुष्यदण्डः । Acharya Shri Kailassagarsuri Gyanmandir अत्र हि पूर्व्वप्रतौके ब्राह्मणाततायिना युद्धमाचमनुज्ञातं तच्च तन्निवारणमाचाभिप्रायमुत्तरप्रतौके युद्ध - प्रसञ्जितां हिंसामाशङ्क्य तस्याः प्रतिषेधात् । अत एव प्रायश्चित्तकाण्डे ब्राह्मणादौनां गवादौनावाततायिनां वधाभ्यनुज्ञावचनानि दर्शयित्वा सुमन्तुवचनं लिखित्वा लक्ष्मौधरेण तेषां गोब्राह्मणेतर परत्वं स्पष्टमुक्तम् । २४७ एतद्वचनसमनन्तरमाततायिनि चोत्कृष्ट इत्यादिकात्यायनवचनमप्यनेन लिखितमिति चेत । एवमपि हि शूलपाणिव्यवस्था स्यान्न तदभिमतः 'सर्व्वत्र दोषाभावः । तस्मादाततायिनोऽपि ब्राह्मणादेर्वधे पापं स्यादेव दण्डस्तु नास्ति कात्यायनवचनान्तरस्यार्थशास्त्रत्वेन तदपवादकत्वात् न च दण्डाभावे पापाभावनियमो वेश्याभिगमनादौ तदभावस्मरणेऽपि प्रायश्चित्तोपदेशात् । तदियमत्र व्यवस्था यदि निर्गुणं शूद्रं केनचिन्निमित्तेन कषायितो ब्राह्मणः प्रथमप्यभिहन्ति तदा तस्य दण्डाभावो वाक्पारुष्यप्रकरणप्रपञ्चितान्न वेत्यादिहारौतवचनात् । ? त्र सवथा । निर्गुणमपि शूद्रमब्राह्मणोऽमुं कञ्चिदन्यं यः कश्चिदन्यो वा यदि प्रथमं प्रहरति यस्य निरपवादो यथोक्तदण्डो नियतमिति नारदवचनात् । यस्तु तेन ताडितः सहते स वाचा पूज्यः सामान्यतो यः क्षमते इति पूर्व्वप्रकर णोक्तनारदवचनात् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy