SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डपारुष्यदण्डः। २३६ मिताक्षराकारस्तु, आततायिनमायान्तमपि वेदान्तपारगम् । जिघांसन्तं जिघांसौयान्न तेन ब्रह्महा भवेत् । इति कात्यायनवचनं तावदर्थशास्त्रम् । इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न' विधीयते ॥ इति मनुवचनं धर्मशास्त्रं तदनयोर्विरोधे धर्मशास्त्र बलवत्अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः। ___ इति याज्ञवल्क्यदर्शनात् । एवञ्च मनुना “शस्त्रं दिजातिभिर्दाह्यम्"। इत्याधुपक्रम्य "आत्मनश्च पवित्राणि" इत्यादिवचनेनाततायिनमकूटशस्त्रेण नतो न दण्डभागित्वमिति यदक्तं तस्यानुवादार्थ “गुरुं वा बालवृद्धौ वा" इत्यादिकमुच्यते। तथा चात्र वाशब्दश्रवणादाततायिनमित्यादावपि शब्दश्रवणाद् गुवादौनत्यन्ताबध्यानप्याततायिनो हन्यात् किमुतान्यानित्यान्न गुर्बादीनां वध्यत्वं "नाततायिवधे दोषोऽन्यत्र गोब्राह्मणात्” इति सुमन्तुवचनात् । आचार्यञ्च प्रवक्तारं पितरं मातरं गुरुम् । न हिंस्याद्राह्मणान् गाञ्च सांश्चैव तपस्विनः ॥ इति मनुवचनाच्च । इदं हि वचनमाचार्यादौनामाततायिनां हिंसाप्रतिषेधेनार्थवन्नान्यथा, हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । १ ध निष्कृतिः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy