SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org | Acharya Shri Kailassagarsuri Gyanmandir २३६ दण्डविवेकः । बौजमाहुरपि तु विहितस्यात्मगोपनस्यान्यथानुपपत्तिः। सा च प्रहारस्थले साक्षादन्यत्र परम्परयेति सर्वचाविशिष्टा। हन्तैवं दारापहारे साक्षात् परम्परया वात्मगोपनाविरोधात् कथमनुज्ञेति चेत् आत्मरक्षणवद् दाररक्षणस्यापि विहितत्वात्। सर्वेषामेव वर्णानां दारा रक्ष्यतमाः स्मृताः । इति परदाराभिमर्षणप्रकरणीयमनुवचनात्। परेण स्वदारावमर्षणात् वर्णसङ्करेण सर्वनाशस्य मनुनैवोक्तत्वात् । स्यादेतत् स्तौणां प्रमादमदमोहबलात्कारकृते व्यभिचारे रजसा शुद्धिः। यत्तु बलात्करादावपि त्रिरात्रप्रायश्चित्तं स्मर्यते तदसंजातरजस्काया निहत्तरजस्काया वेत्यविरोधः । कामजे तु व्यभिचारे चान्द्रायणेन शुद्धिः। गर्भसम्भवे, गर्भपातने गुरुशिष्यसुतपतितचाण्डालादिगमने च त्यागः । स चात्र भोगधर्मकार्ययोर्बहिष्करणलक्षण इति बृहस्पति-यम-याज्ञवल्क्य-शङ्ख-वसिष्ठादिवाक्यैकवाक्यतया निबन्धेषु व्यवस्था दर्शिता । मिताक्षराकारस्तु व्यभिचारादृतौ शुद्धिरित्याह । अप्रकाशितान्मनोव्यभिचारात् पुरुषान्तरसम्भोगसङ्कल्यात् यत् पापं तस्य ऋतौ रजोदर्शनाच्छुद्धिरिति । तथा गर्भ त्यागो विधीयत इत्याह। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy