SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२४ Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । परोपघातशङ्कया प्रथममेव दूरमपैहौति प्रजल्पतः । प्रकर्षेणोच्चैर्भाषमाणस्याश्वादिकृतमनुष्यादिदोषोऽश्वादिनेतुरभ्यासकर्त्तुश्च न भवतौत्यर्थः । अथ मनुः, यानस्यैव हि जन्तोश्च यानस्वामिन एव च । दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥ यानस्य रथादेर्यद्यपि पश्वादेन दण्डस्तथापि शिविकावाहकपुरुषस्यास्तीति यानग्रहणमिति नारायणः । जन्तोः सारथेर्दण्डमतिक्रभ्य वर्त्तन्त इत्यतिवर्त्तनानि दण्ड निमित्तानि । दशविधानि तान्याह स एव । 'छिन्ननस्ये भिन्नयुगे। तिर्य्यक् प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ भेदने चैव यन्त्राणां योक्त- रश्म्योस्तथैव च । क्रन्दे वाप्यपैति न दण्डो मनुरब्रवीत् ॥ छिन्ननस्ये छिन्ननासासमुद्धरज्जौ भिन्नयुगे युगकाष्ठभेदे प्रतिमुखागते प्रत्यारत्यागत इति नारायणः । तिर्य्यक् प्रतिमुखागते इति तिर्य्यक् प्रतिमुखञ्च यत् तत् प्रतिबोधादगतगमनं तेन तिर्य्यक् प्रतिमुखविरोधिगमनस्य यानान्तरबलेन यदपरस्य यानस्यागमनादितरदपि न दण्डहेतु इत्यर्थ इति रत्नाकरः । १ व पुस्तके छिन्नेनास्ये । For Private And Personal Use Only २ ख भमयुगे ।
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy