SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मणादौनां परस्पराक्षेपे । २०४ तथा च याज्ञवल्क्यः , विद्य नृप देवानां क्षेप उत्तमसाहसः। मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः॥ अत्र चैविद्या वेदत्रयसम्पन्नाः, नृपः प्रजापालः। जातयो ब्राह्मणमूर्द्धाभिषिक्तादयः तेषां पूगः समूहः । ग्रामदेशयोः प्रथम इत्यत्राप्युपपातकयुक्त इत्यनुषङ्गो युक्तः साहचर्यादिति केचित् । तन्न । __ आक्षेपविशेषेणैवाप्यनाक्षेप्याक्षेप्यतारतम्यापेक्षया यथोत्तरं दण्डापकर्षविधानात् पापपरत्वस्य स्मृत्यन्तरसम्बादात्। यदाह वृहस्पतिः, देशादिकं क्षिपन् दण्ड्यः पणानई त्रयोदशन् । पापेन योजयन् दर्पाहण्ड्यः प्रथमसाहसम् ।। तथा, एष दण्डः समाख्यातः पुरुषापेक्षया मया । समन्यूनाधिकत्वेन कल्पनीयो मनौषिभिः ॥ इति अत्र नारदः,न किल्विषेणपवदेच्छास्त्रतः कृतपावनम् । न राज्ञोद्धृतदण्डञ्च दण्डभाक् तद्यतिक्रमात् ॥ कृतपावनं कृतप्रायश्चित्तम् । अपवदेदाक्रोशेत् उद्धृतदण्डं कृतदण्डं अब हेतुर्दण्डभागिति। तौ प्रायश्चित्तदण्डौ डावनपेक्ष्य किल्विषभागी दण्ड्यो यत इत्यर्थः ॥ १ क्वचित् पाठः महर्षिभिः । 27 २ घ पुस्तके घतदण्डश्च । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy