SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २.८ दण्डविवेकः। अनन्तरोक्तनानावचनसम्बादात्। वधस्तु जिह्वाच्छेदादिरिति विशेषः । अत एव समानजातिविषयमिदं वचनमिति कुल्लूकभट्टोक्तमपि घटते। अथ तेषु तेषु पारुष्यविशेषे दण्डविशेषाः। तत्र व्यासः,पापोपपापवक्तारो महापातकशंसकाः । आद्यमध्योत्तमान् दण्डान् दद्युस्ते ते यथाक्रमम् ॥ अच महापातकं प्रसिद्धं ततो न्यूनमुपपातकं ततोऽपि न्यूनं पापं ततो न्यूने पापेऽधमदण्डः। उपपापे मध्यमो महापातके तूत्तमः। याज्ञवल्क्यः ,पतनीयकृताक्षेपे दण्ड्यो मध्यमसाहसम् । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ पतनौयकृताक्षेपे पातित्यहेतुभिर्ब्रह्महत्यादिभिः कृताक्षेपे । इदं गुणवत्कृष्टाक्षेपकविषयमिति प्रतिभाति। विष्णुः, परस्य पतनौयाक्षेपे कृते उत्तमसाहसं उपपातकयुक्त मध्यमं विद्यड्वानां क्षेपे जातिपूगानाञ्च ग्रामदेशयोः प्रथमम्। विद्यवानामित्यत्रोत्तमसाहसमित्यनुषङ्गः। जातिपूगानामित्यत्र मध्यममित्यनुषङ्गः । १ क्वचित् पाठः पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy