SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ दण्डविवेकः । अतस्तस्यैव दण्डाभावो वैश्यक्षत्रिययोस्तु स्वाम्यतारतम्यानुसारौ दण्डलेशोऽस्त्येवेति तात्पर्य्यार्थो गम्यते । स चायं दण्डाभावो निर्गुणशूद्रपरत्वेन व्यवतिष्ठते। गुणहीनस्येत्यादिवक्ष्यमाणबृहस्पतिवचनसम्बादात्। अन्यत्र सर्वत्र दण्डोपदेशात् ब्राह्मणपदञ्च न कृषौबलादिसाधारणजातिमात्रपरमपि तु गुणवदभिप्रायम्। तस्यैवेशानसामर्थ्यात्। तदेवं न वेति विकल्पस्य विषयव्यवस्थायामष्टदोषदुष्टत्वमप्यपास्तं' भवतौति चतुरसम्। मनुनारदौ,समवर्णे दिजातीनां हादशैव व्यतिक्रमे । वादेष्ववचनौयेषु तदेव द्विगुणं भवेत् ॥ अत्र द्विजातित्वमतन्त्रमिति रत्नाकरः। व्यतिक्रमो वाक्पारुष्यम्, अवचनीयो वादोऽप्रकाश्यप्रकाशकं वचनम्। अवचनौयेषु त्वं स्वमृगामौत्यादिषु आक्रोशमात्रतात्पर्येणोक्तेष्ठिति नारायणः । कात्यायनोशनसौ,मोहात् प्रमादात् संहर्षात् प्रौत्या चोक्तं मयेति यः। आह नैवं पुनर्वक्ष्ये दण्डाई तस्य कल्पयेत् ॥ एतत् परिहार्यवाक्पारुष्याभिप्रायमिति रत्नाकरः । १ ग अस्तं । २ घ पुस्तके वादेषु वचनो येषु । ३ मूले पाठः--नाहमेवं । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy