SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मणादीनां परस्पराक्षेपे। २०३ विषमयोस्तुल्यवदिकल्पानुपपत्तेः सत्येतु पारिशेष्यादष्टौ पुराणाः। यहा पादच्छेदनेऽन्ताभिशंसने इति समभिव्याहारदर्शनात् पादताडने तदङ्गच्छेदः। अन्टताभिशंसने पञ्चशतदण्ड इति व्यवस्थेति प्रतिभाति । तथा न वा किञ्चिदिति मतं यद्यप्यसङ्कुचितविषयमिति युक्तं चैवर्णिकोपक्रमत्वात् हेतुसाधारण्याच्चेति । तथापि ब्राह्मणमाचपरतया नेयम् । उपसंहारे ईशानतमो ब्राह्मण इत्यनुवाददर्शनात् । उपदधाति इत्यत्र सामान्येन प्राप्तेऽञ्जनद्रव्ये तेजो वै तमित्यनुवाददर्शनेन तविशेषपरिनिष्ठावत्। न च स्वामित्वस्यैवायमित्यनुवाद इति वाच्यम् । ईशनतम इति तमोपादानविरोधात् । अनुवादमात्रस्य वैयर्थ्याच्च। न च,यथा,—तिलांश्च विकिरेत्तत्र परितो बन्धयेदजाम् । असुरोपहतं श्राई तिलैः शुद्ध्यत्यजेन च ॥ इत्यत्र अजानात्मकदेशे फलसम्बन्धप्रतिपादनार्थमजेनेत्यनूद्यते। तथा इह किञ्चित् प्रयोजनमस्ति तस्मात् कामं पूर्वपूर्वो वर्ण उत्तरोत्तरस्यादित्वादभ्यर्हितत्वेन स्वामी । ब्राह्मणस्तु स्वामितमः स्वामिस्वामित्वात् । १ ख पुस्तके असुरोपहता भूमिः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy