SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कन्याटूषणदण्डः। १८३ अथ समाभिगन्तुर्दण्डमाह मनुः,योऽकामां दूषयेत् कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ वधं लिङ्गछेदादिकमिति मनुटौकायां कुल्लक भट्टः। दण्डन्तु प्राप्नुयादेवेति नारायणः । तत्र मत्स्यपुराणे योऽकामामित्यादिप्राप्तः परमसाहसं तुल्यायामकामायामभिगन्तुर्वधः सकामायान्तु सहस्रदण्ड इति दयोः समुदायार्थः । नारदः, सकामायान्तु कन्यायां सवणे नास्यतिक्रमः । किन्वलङ्कृत्य संस्कृत्य स एवैनां समुदहेत् ॥ मनुः, शुल्कं दद्यात् सेवमानः समामिच्छेत् पिता यदि। शुल्कमुभयसंप्रतिपन्नं द्रव्यमासुरविवाहवदिति रत्नाकरः। शुल्कमनुरूपं दद्यान्न तु दण्ड इति मनुटौकायां भट्टः। शुल्कं गोमिथुनं तच यदि तत्पिता नेच्छति तदा तदेव दण्डरूपेण राक्षे दद्यादिति मिताक्षराकारः । नारायणेन तु व्याख्यातं शुल्कं पित्रे मूल्यं दद्यात् स यदि तस्मै तां दातुमिच्छेत्, अनिच्छायां त्वन्यस्मै कन्यां दद्यादिति। १ घ पुस्तके कुल्लक पदं नास्ति ।। २ ख सङ्गमे । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy