SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir च्यन्त्याभिगमनदण्डः । १७६ युक्तचैतत् क्षत्रियागमने दण्डान्तरोपदेशात् । सगोचे - त्यनेन प्राप्तायाः सपत्नीमाचादेः पुनरुपादानं शिश्रछेदादधिकस्य वधदण्ड — ताडनादेः प्राप्त्यर्थम् । नान्यो दण्डो विधौयते इति तु निछेदस्यावश्यकर्त्तव्यत्वपरं शिश्रछेदं विहाय दण्डान्तरं न कार्य्यमिति वाक्यार्थपर्य्यवसानादिति प्रतिभाति । तथा स्त्रीणां प्रव्रज्यानिषेधात् प्रब्रजिता श्रुतिस्मृतिविहितयथावद्विधवाधर्म्मवतौ विरक्ततया सन्यासितुल्याचारा विवक्षिता, राज्ञौसमभिव्याहारेण पूज्यतमत्वावगमात् । यत्तु, चत्वारिंशत्पणो दण्डस्तथा प्रव्रजितागमे । ---- इति याज्ञवल्क्येनोक्तम् । तत्र प्रवजिता शाक्यादिस्त्रौ विवक्षिता दास्यादिसमभिव्याहारेण हौनात्वप्रतिपत्तेरिति न दण्डविरोधः । वर्णोत्तमा ब्राह्मणीति मिताक्षराकारः । तदिदं वचनं गुप्ताविषयमिति रत्नाकरः । - याज्ञवल्क्यः पितुः स्वसारं मातुश्च मातुलानौं खुषामपि । मातुः सपत्नौं भगिनौमाचार्य्यतनयां तथा ॥ आचार्यपत्नौं स्वसुतां गच्छंस्तु गुरुतल्पगः । fछत्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा ॥ तत्रापि राज्ञौ श्वश्वादयो द्रष्टव्याः पूर्व्ववाक्ये पितृ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy