SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ दण्डविवेका तथाहि तद्याख्यानं—आर्या चैवर्णिकस्त्री तदभिगमे ऽन्त्यश्चाण्डालो वध्य इति । नन्वेवम्,व्रात्यया सह संवासे चाण्डाल्या तावदेव तु। इति मनुवचनविरोधः स्यात् । न स्यादविरोधिनस्तदर्थस्याभिगमदण्डमाकोपक्रमे दर्शितत्वात् । अस्तु वा दण्डभेदे वैकल्पिको व्यवस्था । यथा-निर्धनत्रैवर्णिकविषयं साङ्कप्रवासनं सधनतद्विषयः सहस्रदण्ड इति। अथ स्वजनाभिगमे राज्ञीप्रमृत्यभिगमे चदण्डमाह नारदः, माता मातृधसा-श्वश्रु-र्मातुलानी-पिवृष्ठसा । पितृव्यसखि-शिष्यस्त्री-भगिनी-तत्सखी-स्नुषा ॥ दुहिताचार्यभार्या च सगोत्रा-शरणागता। राज्ञौ-प्रव्रजिता-साध्वौ-धाची-वर्णोत्तमाऽपि या ॥ आसामन्यतमां गत्वा गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र' नान्यो दण्डो विधीयते ॥ माताऽत्र जननीव्यतिरिक्ता पिपत्नी, गुरुतल्पग उच्यते इत्यतिदेशसामर्थ्यात् । मातृग्रहणं दृष्टान्तार्थमिति मिताक्षराकारः। पितृव्यपदं भ्राचादिपरमपि तुल्यन्यायात् । एवं भगिनौसखौति दुहित्रादिसखोपरमपि न्यायसाम्यात्। राज्ञी राज्यकर्त्तर्भार्येति मिताक्षराकारः। १ घ पुस्तके तस्य । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy