SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। अथान्त्याभिगमनदण्डः। तत्र सहसन्वन्त्यजस्त्रियमिति मनुवचनं समनन्तरं लिखितम्। इहान्त्यजस्त्रियं रजकादिस्त्रियमिति रत्नाकरः। रजकचर्मकारादिस्त्रियमिति मिश्राः । चाण्डालौमिति मिताक्षराकारः। कुल्लकभट्टोऽपि अन्ते भवोऽन्त्यो यस्मादधमः शूद्रो नास्ति स च चाण्डालादिस्तस्य स्त्रियमित्याह । यत्त अन्त्यागमने वध्य इत्युक्तं तद्ब्राह्मणव्यतिरक्तविषयम् । याज्ञवल्क्यः , अन्त्याभिगमने 'त्वकं कवन्धेन प्रवासयेत् । शूद्रस्तथाऽय एव स्यादन्त्यस्या-गमे वधः ॥ अङ्ककवन्ध इति अशिरस्कपुरुषाकाररूपोऽङ्करतेनाङ्कयित्वा चैवर्णिकं निर्वासयेदिति रत्नाकरः। एवमेव कल्पतरुः । कवन्धेनाकयेत् कवन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा इति मिताक्षराकारः युक्तञ्चैतदौचित्यात् । कामधेनौ कल्पतरौ चायेति पठितं तत्र वा विषये ल्यप् प्रयोग आर्षः । अवार्थदण्डोऽपि द्रष्टव्यः । सहसल्वन्त्यजस्त्रियमिति मनुवचनादिति मिताक्षरा। शूद्रोऽङ्मय १ क पुस्तके त्वाय । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy