SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परदाराभिमर्षणदण्डः । सम्भाषणं परस्त्रीभिः प्रतिषिवो न चाचरेत् । निषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥ वन्दिनः स्तावकाः, दौक्षिता यज्ञार्थं कृतदीक्षाः, कारवो भृत्यर्थं शिल्पिन इति रत्नाकरः। सूपकारादय इति मनुटौका। अप्रतिवारिता अप्रतिषिद्धाः, भाषमाणः सम्भाषणं कुर्बाणः। स्त्रौदण्डे विशेषमाह याज्ञवल्क्यः, स्त्री निषेधे शतं दण्ड्या द्विशतन्तु दमं पुमान् । प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ पतिपुत्रादिभिर्निषिड्वाऽपि स्त्री पुरुषेण सह सम्भाषणादिकं कुर्वाणा शतं दण्ड्या। पुरुषस्त्वेवं कुर्वन् द्विशतं दण्ड्यः । स्त्रीपुरुषौ परस्परं तथा कुर्वाणौ त्वभिगमवदर्णानुसारेण दण्ड्यावित्यर्थः। अत्र मानवं वचनमभ्यासविषयं धनिकविषयं वा। याज्ञवल्क्यौयन्त्वनभ्यासनिर्धनविषयमिति प्रतिभाति । अचापवादमाह कात्यायनः,नाथवत्या परग्रहे संयुक्तस्य स्त्रिया सह । दष्टं संग्रहणं तज्ज्ञैर्नागतायाः स्वयं गृहे ॥ तथा, अतोऽन्येन प्रकारेण प्रवृत्तौ ग्रहणं भवेत् । स्वयमेवागतायान्तु पुंरहे स न दोषभाक् ॥ पुंग्रह इति स्त्रीयहं गते पुंसि स्त्रियां स्वयमुपस्थितायामधिकार पुंसो न दोष एवेत्यर्थः। एतद्वचनं कल्पतरौ १ ग पुस्तके उत्त्यर्थ । २ ख घ अधि । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy