SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ दण्डविवेकः । स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया परस्परस्यानुमतं तच्च संग्रहणं स्मृतम् ॥ व्यासः, इति मनुवचनात् । प्रेषणं गन्धमाल्यानां पूगभूषणवाससाम् । प्रलोभनञ्चान्नपानैर्मध्यमः साहसः स्मृतः ॥ बृहस्पतिः,एकशय्यासनं क्रौडा चुम्बनालिङ्गनं तथा। एतत्संग्रहणं प्रोक्तमुत्तमं शास्त्रवेदिभिः ॥ एवमन्यदूहनौयमाकरे वाऽनुसन्धेयम् । तत्र दण्डमाह बृहस्पतिः, त्रयाणामपि चैतेषां प्रथमो मध्य उत्तमः । विनयः कल्पनीयः स्यादधिको द्रविणाधिके ॥ एतेषां प्रथममध्यमोत्तमसाहसकारिणां क्रमेण प्रथममध्यमोत्तमा दण्डाः। अधिकधनस्य तु प्रथमादिभ्यो ऽधिकोऽपि दण्ड इत्यर्थः । आपस्तम्बः, अबुद्धिपूर्वमलङ्कृतो युवा परदारमनुप्रविशन वाचा बाध्यो बुद्धिपूर्वन्तु दण्ड्यः । अबुद्धिपूर्वमदुष्टबुद्धिपूर्वमनुप्रविशन् उपसर्पन वाचा बाध्यो भर्त्सनौयः। मनुः,भिक्षका वन्दिनश्चैव दीक्षिताः कारवस्तथा। सम्भाषणं गृहस्त्रीभिः कुर्य्यरप्रतिवारिताः ॥ १ क ख च पुस्तकत्रये मध्यमोत्तम इति पाठः । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy