SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दगडविवेकः । १४२ सम्भवति तस्य तन्मात्रं यस्य त्वधिकं तस्य द्विगुणो दण्डः । यस्य तु मूल्यमाचमपि नास्ति चौर्य्ये चातिप्रसङ्गस्तस्य वध इति व्यवस्थेति रत्नाकरः । मनुः,— कोष्ठागारायुधागारदेवतागारभेदिनः । हस्त्यश्वरथहन्त॑श्च हन्यादेवाविचारयन् ॥ आगारपदोपसन्धानादायुधमिह राजकीयं द्रष्टव्यम् । एतदप्यतिप्रसङ्ग विषयमिति प्रतिभाति ॥ तृणं वा यदि वा काष्ठं पुष्यं वा यदि वा फलम् । अनाटय तु गृह्णानो हस्तछेदनमर्हति ॥ इति बृहस्पतिवचनमप्यतिप्रसङ्गविषयमेव । तृणाद्यपहारविषयेण मूल्यद्विपञ्चगुणदण्डेन समं हस्तछेदस्य वैषम्येण विकल्पायोगादिति द्रष्टव्यम् । यत्तु, येन येन परद्रोहं करोत्यङ्गेन तस्करः । छिन्द्यात्तत्तस्य नृपतिर्न करोति यथा पुनः ॥ इति कात्यायनवचनं तद्यक्तमेवातिप्रसङ्गविषयं न करोति यथा पुनरित्यभिधानात् । एवञ्च यच दण्डे विशेषो न श्रूयते तत्रैव तद्यक्तव्यवस्थानुसारेणैव तत्कल्पनमिति प्रतिभाति । यच्च, क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । देशं कालं वयः शक्तिं सञ्चिन्त्य दण्डकर्म्मणि ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy