SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकोपहारिदण्डः । १४१ देवद्रव्यं क्षुद्रमप्यमोषामुत्तममित्यर्थकमिति स्मृतिसारकारः। एवमेव ग्रहेश्वरमिश्राः। अत्र वृहस्पतिः,हौनमध्योत्तमत्वेन विविधं तत्प्रकीर्तितम् । द्रव्यापेक्षो दमस्तव प्रथमो मध्यमोत्तमः ॥ प्रथमो मध्यमोत्तम इति प्रथममध्यमोत्तमसाहसरूप इत्यर्थः । इत्थं होनादिद्रव्यापहारेषु प्रथमादिसाहसानां व्यवस्थितत्वेऽपि तेषां होनत्वादितारतम्यात् साहसानां न्यूनाधिकसंख्याभेदो व्यवस्थितो द्रष्टव्यः । एतत् विवृणोति स एव, क्षेत्रोपकरणं सेतुं पुष्यमूलफलानि च । विनाशयन् हरन् दण्ड्यः शताद्यमनुरूपतः ॥ पशुवस्त्रानपानादि गृहोपकरणन्तथा। हिंसयन् चौरवद्दाप्यो द्विशतान्तं दमन्तथा ॥ स्त्रीपुंसौ हेमरत्नानि देवविप्रधनन्तथा । कौशेयञ्चोत्तमं द्रव्यमेषां मूल्यसमो दमः ॥ द्विगुणो वा कल्पनीयः पुरुषापेक्षया नृपैः । हर्ता च घातनौयः स्यात् प्रसङ्गविनिवृत्तये ॥ शताद्यं शतावरं द्विशतान्तं अनुरूपतो विनाशे चापहृतमूल्यानूसारेण देशकालशक्त्यनुसारेण च । पुरुषापेक्षया आढ्यदरिद्रपुरुषापेक्षया। अत्र यस्य मूल्यमाचं २ ग घ चौरयन् । १ घ पुस्तके कर्षणमिति पाठः । ३ घ विनाशितापकृत ।। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy