________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
तथा,-मनुः,पुष्येषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अल्पेष्ठपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ हरिते धान्ये क्षेत्रस्थ एव घासार्थमपहृते। हरिते माषादाविति नारायणः ।
अल्पेषु एकपुरुषोहाह्यादपि होनेषु, अपरिपूतेषु अनपहतकल्केषु। अत्र धान्येष्विति वचनविपरिणामेन सम्बन्धः । कृष्णलाः सौवर्णा लिखितपरिभाषानुसारात् । कुल्लकभट्टस्तु,
देशकालाद्यपेक्षया सौवर्मराजतावित्याह । मनुः,
को(गो)ष्ठागारायुधागारदेवतागारभेदिनः । हस्त्यश्वरथहन्तुंश्च हन्यादेवाविचारयन् ॥ कोष्ठागारं धान्यागारमिति रत्नाकरः । राजगृहमिति मनुटौकायां नारायणः। अविचारयन् तथाविधकर्मणि निश्चितेऽविलम्बमानः। धान्यागारादौ भित्तिभेदनमेव सन्धिस्थानीयमतस्तत्कर्तुः सन्धिछिद एवायं दण्डः । __ तच्छेदमात्र पूर्वसाहसस्य प्रकौम्के वक्ष्यमाणत्वात्, भेदिन इति निदर्शनात्तालोल्यप्रतीतौ भेदाभ्यासेऽतिप्रसङ्गनित्यर्थो वा वधः ।
यहा भेदनमिह चौर्यपरमेव। आकरे तु तत्प्रकरण एव पाठात् । कामधेनु-कल्पतरुकारादिभिस्तत्रैवावतारणाच्च । देवतागारेऽपि जगन्नाथादेरिवालङ्काराद्यपहारसम्भवात् ।
For Private And Personal Use Only