SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः। १०६ कूटैरक्षादिभिरुपाधिना च वञ्चनहेतुमणिमन्त्रमहौपधादिना ये दौव्यन्ति तान् श्वपदादिनाऽङ्कयित्वा निर्वासयेदिति मिताक्षराकारः। निर्वासनञ्च राष्ट्रात्, अनुपात्तविशेषे निर्लासने सर्वत्र देशस्यैवोपादान'दर्शनात् द्यूतमण्डलाहा तत् । तथाच नारदः,कटाक्षदेविनः पापान्निहरेत् द्यूतमण्डलात् । कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥ मिताक्षरायान्तु,निर्वासने नारदेन विशेष उक्त इत्युक्त्वा वचनमिदमवतारितम् । निर्हरेत् द्यूतमण्डलादित्यत्र राजा राष्ट्रात विवासयेदिति च पठितम् । अचाप्यपराधगौरवलाघवाभ्यां व्यवस्थेति प्रतिभाति । एवञ्च, कितवान् कुशौलवान केरान् क्षिप्रं निर्बासयेत् पुरात्। एते राष्ट्रे वर्तमाना बाधन्ते भद्रिकाः प्रजाः ॥ इति विध्यर्थवाद प्रविष्टमपि पुरादिति राष्ट्रादित्युभयोपादानं घटते। इह यद्यपि। प्रकाशमेतत्तास्कयं यद्देवनसमाह्वयम् । इति मनुना स्तेयत्वमनयोरविशेषेणैवोक्तम् । १ घ उपादानत्वेन । २ क ग पुस्तकत्रये आसाद्य । ३ ७ पुस्तके स ह्येष । 8 क ख-विध्यनुवाद- । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy