SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । १०५ यथा विष्णः, उत्तमं साहसं दण्ड्यो भिषमिथ्या चरन्नुत्तमेषु । मध्यमेषु मध्यमम् । तिर्यक्षु प्रथमम् । सर्वमिदं रोगिणो मरणाभावे। तत्र दण्डाधिक्यादिति चिकित्सकानां सर्वेषामित्यादौ नारायणः । अथ विस्रब्धवञ्चकानां तथा सभ्यानांअन्यायवादिनां तथोत्कोचादायिनां दण्डः । तत्र व्यासः, अनिच्छन्तमभूमिज्ञं संयोज्य व्यसने नरम् । अपकर्षन्ति तद्रव्यं वेश्या-कितव-शिल्पिनः ॥ अनिच्छन्तं प्रवृत्त्यनुन्मुखम् । अभूमिनं का-कार्यविवेकशून्यम् । एतेनैतेषां विसब्धवञ्चकत्वमुक्तं भवति । अत्र वृहस्पतिः, अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः। विसब्धवञ्चकाश्चैव निवास्याः सर्व एव ते ॥ सभ्याः पार्षदाः। अर्थालाभेनान्यायवादिनः। विस्तब्धवञ्चकाः सम्यनिर्णयानुकूलवञ्चनव्यतिरिक्तवञ्चनकर्तारः। उत्कोचादायिनो द्विविधाः-उत्कोचग्राहिणस्तदाजौविनश्च। तत्र प्रथममाह व्यासः,न्यायस्थानेष्वधिकता गृहीत्वाऽर्थं विनिर्णयम् । कुर्वन्त्युत्कोचकास्ते तु राजद्रव्यविनाशकाः ॥ तथा सभ्योत्कोचकवञ्चका इति मनुवचने रत्नाकरः, उत्कोचकाः कार्याधिकृताः सन्त उत्कोचग्राहिणः । तत्र ते प्रकृते उत्कोचाजीवित्वेनोक्ताः। 14 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy