SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०४ www.kobatirth.org दण्ड़विवेकः । भिन्नो न्यूनः तेन पणन्यूनमूल्ये वस्तुनि तथा कुर्व्वतः पञ्चाशत् पणः । पणमूल्ये शतं पणाः, द्विपणमूल्ये शतद्दयं पणो दण्डः, शताधिकमूल्ये त्वनेनैव क्रमेण दण्डeffectर्थः । मनुः, Acharya Shri Kailassagarsuri Gyanmandir अत्र च स्वस्तिकरुचकादिपानपात्रादि वा घटयितुं समर्पितस्य सुवर्णादेरेकदेशमपहृत्य दहनध्यापनावर्त्तनाद्युपक्षौणतया तदपहारं गोपयतः सुवर्णकारादेरपहृतद्रव्यानुसारेण दण्डः प्राप्तः । तत्रोपक्षयः तत्तद्द्रव्यनियमेन नारदादिभिरुक्तोऽपि नेह परिगृहीतः । व्यवहारिकस्य तस्यैव व्यवहाराङ्गत्वात् । अतएव तन्तुवायोर्णवायविषयविशेषेो मन्वादिभिरुक्तोऽपि नाचोक्तः । अथ भिषजो दण्डमाह । अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । रोगिभ्योऽर्थं समादत्ते स दण्ड्यचौरवद्भिषक् ॥ अत्र रोगिविशेषे दण्डविशेषव्यवस्थामाह । याज्ञवल्क्यः,— भिषमिथ्या चरन्द्याप्यस्तिर्य्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषे तुत्तमं तथा ॥ अच तिर्य्यगादिषु मूल्यविशेषेण राजप्रत्यासत्तिविशेषेण च दण्डानां गुरुलघुभावश्च कल्पनीय इति मिताक्षरा । १ ६ पुस्तके दमम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy