SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तेयदण्डः । मिताक्षरा। देशपतिरिति प्रसिद्धो देशपाल इति रत्नाकरः। यत्र ग्रामे विशिष्टरक्षानियुक्तो नास्ति तद्दिषयमिदम् । यत्र चौरग्राहो दिक्पाला वा नास्ति । तत्र याज्ञवल्क्यः, स्वसौम्नि दद्यात् ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामौ बहिः कोशाद्दशग्राम्यथवा पुनः ॥ अथवेति वाकारोऽनास्थायां अत्र ग्रामाध्यक्षे सति स एव दद्यात्। ग्रामान्तेषु हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् । इति कात्यायनसम्बादात्। तदभावे तु ग्रामो दद्यात् । ग्रामपदञ्चार ग्रामवासिलोकपरं ग्रामः पलायते इतिवत्। एतच्च यदि सौम्नो बहिश्चौरस्य पदं निर्गच्छति तदा बोद्धव्यम् । निर्गते तु तस्मिन् यत्र तत्प्रविष्टं स एव ग्रामस्तदध्यक्षो वा दद्यात्। अनेकग्राममध्ये क्रोशाहिःप्रदेशे मोषे जाते जनसम्मादिना चौरपदे भग्ने समाहृताः पार्श्वग्रामाः पञ्च वा दश वा न्यूनाधिका वा यथाप्रत्यासन्ना अपहृतद्रव्यं दारित्यर्थः। एतच्चाज्ञानकर्तृके मनुष्यमारणेऽपि द्रष्टव्यं घातितेऽपहृते दोष इत्युपक्रम्य याज्ञवल्क्येनाभिधानात् । १ ग ७ पुस्तकदये यथाप्रत्यासत्यपहृतव्यम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy