SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः। कर्मणार्थनिस्तारानुरूपव्यापारेण । विप्रस्तु न कर्मणाटण्यं गच्छेदपि तु क्रमेण दद्यादेवेति रत्नाकरः। इह ब्राह्मणस्य कर्मकरणादिबोधकनानावचनविरोधे व्यवस्था प्रतिभाति। यत्र ब्राह्मणस्य धनदण्डः क्रियते तत्र धनिकस्य यथाविहितं सर्वस्वहरणं सहस्रपणादिग्रहणञ्च। साहसादिकञ्च निईनेनापि तेन यथोदयं देयमेव न तु कर्मणा परिशोध्यम् । यस्य तु क्रमेणापि धनोदयसम्भावना नास्ति स धनदानासहः। तस्य कर्मणैव परिशोधनम् । यत्र धनश्रुतिर्नास्ति तत्रोत्तमस्य वृत्तस्वाध्यायवतः समापत्तिसंभावनायां यथापराधं निगडेन रज्वा वा रहसि बन्धनं प्रायश्चित्तानुष्ठापनञ्च । असमापत्तौ च प्रवासनम् । असमापत्तौ नाश इति प्रकीर्णकप्रक्रमोपक्रमे वक्ष्यमाणपस्तम्बवचनसंवादात्। हौनस्य तु हानितारतम्याब्राह्मणानुचितस्य परिचर्यादेरुच्छिष्टमार्जनादेर्वा विकर्मणः करणम् । प्रवासितस्यासमापन्नस्य होनस्याहीनस्य वा वैवास्यादागत्य तथैव मन्दक्रियानुवर्त्तिनो यावज्जौवं यावत्समापत्ति वा बन्धनमिति । अथ वृहस्पतिः,साक्षिलेख्यानुमानेन सम्यग् दिव्येन वा जितः । यो न दद्याद्देयदमं स निर्वास्यस्ततः पुरात् ॥ १ क कम्मणा खनिस्तारार्थखरूपव्यापारेण । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy