SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दण्डपरिनिष्ठा । सनम् । तच्छून्यस्य धनवतः सर्व्वस्वहरणम् । निर्द्धनस्य तु तथाविधस्य बन्धनादिकमभिप्रेतमिति रत्नाकरः । Acharya Shri Kailassagarsuri Gyanmandir साहस-चौर्य्ययोर्यमः,— न शारौरो ब्राह्मणस्य दण्डो भवति कर्हिचित् । गुप्ते तु बन्धने बद्धा राजा भक्तं प्रदापयेत् ॥ अथवा बन्धनं रज्वा कर्म वा कारयेन्नृपः । मासाईमासं कुब्बत कार्य्यं विज्ञाय तत्त्वतः ॥ यथापराधं विप्रन्तु विकर्माण्यपि ' कारयेत् ॥ गुप्ते रक्षिते यतः पलायनं न भवति । बन्धने कारागारे। विकर्माणि उच्छिष्टमार्जनादौनौति रत्नाकरः । ―――――――― अत्र बृहस्पतिः — वृत्तस्वाध्यायवान् स्तेयौ बन्धनात् क्लिश्यते चिरम् । स्वामिने तद्धनं दाप्यः प्रायश्चित्तञ्च कार्य्यते ॥ वृत्तमाह मनुः, - गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तनं हितानाच्च सर्व्वं तदृत्तमुच्यते ॥ कात्यायनः, स्वाधीनं कर्म्म कारयेत् । धनदानासहं बुवा अशक्तो बन्धनागारं प्रवेश्यो ब्राह्मणाते ॥ चचविट्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । आनृण्यं कर्म्मणा गच्छेत् विप्रो दद्याच्छनैः शनैः ॥ १ व पुस्तके किंकमाण्यपि । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy