SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 380. जात-(१) अजम् । (२) अजः । (३) अज्ञानजम् । (४) आत्मबुद्धिप्रसादजम् । (५) कर्मजम् । (६) कर्मजा। (७) कर्मजान् । (८) नित्यजातम् । (९) प्रकृतिजान् । (१०) प्रकृतिजैः । (११) संस्पर्शजाः। (१२) सहजम् । (१३) स्वभावजम् । (१४) स्वभावजा । (१५) स्वभावजेन ।-(१-२) न क्वचित् जातः इति अजः; तम् अजम् । ( ३-७ ) [विग्रहपद्धतिभ्यः 'अज्ञान' (१), 'आत्मबुद्धिप्रसाद', 'कर्मन्' (७-९) शब्दाः क्रमेण दृष्टव्याः] । (८) नित्यं जातम् नित्यजातम् । (९-१०) प्रकृतेः जाताः प्रकृतिजाः, तान् प्रकृतिजान; तैः प्रकृतिजैः । (११) संस्पर्शात् जाताः संस्पर्शजाः । (१२) सह (जन्मना सह) जातम् सहजम् । ( १३-१५) स्वभावात् जातम् स्वभाव जम् ; तेन स्वभावजेन; स्वभावात् जाता स्वभावजा। 381. जाति-जातिधर्माः-जातीनां (वर्णानां) धर्माः। 382. जानत्-(१) अजानता । (२) अजानन्तः ।-(१) न जानाति इति अजानत्; तेन __ अजानता । (२) न जानन्ति इति अजानन्तः । 383, जि (जय)-(१) धनञ्जय । (२) धनञ्जयः। (३) समितिंजयः।-(१-२) धनं येन् जितम् सः धनञ्जयः (अर्जुनः);। संबोधने विसर्गलोपः। (३) समिति जयति इति समितिंजयः। 384. जित-(१) जितसङ्गदोषाः । (२) जितात्मनः। (३) जितात्मा । (४) जितेन्द्रियः । (५) पुरुजित् ।-(१) जिताः सङ्गदोषाः (सङ्गात् ये जायन्ते ते दोषाः) थैः ते जितसङ्गदोषाः । (२-४) [विग्रहपद्धतिभ्यः 'आत्मन्' (२१-२२), 'इन्द्रिय' (१२) शब्दाः क्रमेण दृष्टव्याः । (५) पुरवः जिताः येन (पूर्वस्मिन् सङ्गामे) सः पुरुजित् । 385. जीव-(१) जीवभूतः। (२) जीवभूताम् । (३) जीवलोके ।-(१-२) जीवः भूतः (जीवत्वं येन स्वीकृतम् सः) जीवभूतः; जीवभूता जीवस्वरूपा, ताम् जीवभूताम् । (३) जीवाः (प्राणिनः) यस्मिन् लोके वसन्ति सः जीवलोकः, तस्मिन् जीवलोके। 386. जीवित-त्यक्तीविताः-त्यक्तं जीवितं यैः ते। 387. जेतृ-जेतासि-[विग्रहपद्धत्यै 'अस्' (२) शब्दो दृष्टव्यः । 388. श-(१) अज्ञः । (२) अज्ञानाम् ।-(१-२) न जानाति इति अज्ञः; 'अज्ञानाम्' ___ इति षष्ठयाः बहुवचनम् । 389. शा-(१) क्षेत्रम् (२) क्षेत्रज्ञः- (१-२) [विग्रहपद्धत्यै 'क्षेत्र' (४-५) शब्दो दृष्टव्या] । 390. ज्ञान-(१) अज्ञानम् । (२) अज्ञानेन । (३) अपहृतज्ञानाः । (४) ज्ञानगम्यम् । (५) ज्ञानचक्षुषः । (६) ज्ञानचक्षुषा । (७) ज्ञानतपसा । (८) ज्ञानदीपिते । (९) ज्ञानदीपेन । (१०) ज्ञाननिधूतकल्मषाः । (११) ज्ञानप्लवेन । (१२) ज्ञानयज्ञः । (१३) ज्ञानयज्ञेन । (१४) ज्ञानयोगेन । (१५) ज्ञानसङ्गेन । (१६) ज्ञानसंछिन्नसंशयम् । (१५) ज्ञानाग्निः । (१८) ज्ञानावस्थितचेतसः। (१९) ज्ञानासिना। (२०) मोघज्ञानाः। (२१) हृतज्ञानाः।-(१-२) न ज्ञानम् अज्ञानम्; तेन अज्ञानेन । ( ३-६ ) [विग्रहपद्धतिभ्यः 'अपहृत' (२), 'गम्य', 'चक्षुष' (१-२) शब्दाः क्रमेण दृष्टव्याः ] । (७) ज्ञानं एव तपः ज्ञानतपः, तेन ज्ञानतपसा। (८) ज्ञानेन दीपितः (प्रज्वालितः) ज्ञानदीपितः, 253 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy