SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 348. चलित-चलितमानसः-चलितं मानसं यस्य सः । 349. चापल-अचापलम्-न चापलम् (चापलस्य अभावः)। 350. चारिन्-नासाभ्यन्तरचारिणी-(विग्रहपद्धत्यै 'अभ्यन्तर' शन्दो दृष्टव्यः)। 351. चिकीर्षु-प्रियचिकीर्षवः-प्रियं कर्तुं ये इच्छन्ति ते। 352. चित्त-(१) मञ्चित्तः। (२) मच्चित्ताः। (३) यतचित्तस्य। (४) यतचित्तात्मा। (१-२) मयि चित्तं, यस्य सः मचित्तः; येषां ते मच्चित्ताः। (३) यतं चित्तं यस्य सः यतचित्तः, तस्य यतचित्तस्य। (४) [विग्रहपद्धत्यै 'आत्मन्' (३५) शब्दो दृष्टव्यः । 353. चित्तत्व-समचित्तत्वम्-समं (संकल्पविकल्परहितं) चित्तम् समचित्तम् , तस्य भावः समचित्तत्वम्। 354. चित्तेन्द्रियक्रिया--यतचित्तेन्द्रियक्रियः-यताः चित्तेन्द्रियक्रियाः (चित्तस्य इन्द्रियाणां च क्रियाः) येन सः। 355. चिन्त्य-(१) अचिन्त्यम् । (२) अचिन्त्यः ।-(-२) न चिन्त्यम् (चिन्तनाय ___ अयोग्यम्) अचिन्त्यम् ; न चिन्त्यः अचिन्त्यः, तमपि अचिन्त्यम् । 356. चिर-अचिरेण न चिरेण (विना बिलम्बेन)। 357. चेतस्-(१) अचेतसः। (२) अपहृतचेतसाम्। (३) अव्यक्तासक्तचेतसाम् । (४) ज्ञानावस्थितचेतसः। (५) निर्विण्णचेतसा । (६) प्रसन्नचेतसः। (७) मय्यावेशित चेतसाम् । (८) यतचेतसाम् । (९) युक्तचेतसः । (१०) लोभोपहतचेतसः । (११) विचेतसः । (१२) सचेताः।-(१) चेतः न विद्यते येषु ते अचेतसः (मूढाः अस्थिरचित्ताः वा)। (२-४ ) [विग्रहपद्धतिभ्यः 'अपहृत' (१), 'अव्यक्त' (५), 'अवस्थित' शब्दाः क्रमेण दृष्टव्याः] । (५) निर्विणं चेतः यस्य सः निर्विण्णचेताः, तेन निविण्णचेतसा। (६) प्रसन्नानि चेतांसि येषां ते प्रसन्नचेतसः। () (विग्रहपद्धत्यै 'आवेशित' शब्दो दृष्टव्यः)। (८) यतानि चेतांसि येषां ते यतचेतसः, तेषां यतचेतसाम् । (९) युक्तानि चेतांसि येषां ते युक्तचेतसः। (१०) [विग्रहपद्धत्यै 'उपहत' (१) शब्दो दृष्टव्यः । (११) विगतानि चेतांसि येषां, येभ्यः वा, ते विचेतसः (विमूढाः)। (१२) चेतसा सहितः सचेताः (प्रसन्नचित्तः संभूत्वा)। 358. चेष्टा-युक्तचेष्टस्य–युक्ताः चेष्टाः (कर्मेन्द्रियाणां व्यापाराः) यस्य सः युक्तचेष्टः, तस्य । 359. चेल-चेलाजिनकुशोत्तरम्-विग्रहपद्धत्यै 'अजिन' (१) शब्दो दृष्टव्यः] । 360. चैल-चैलाजिनकुशोत्तरम्-[विग्रहपद्धत्यै 'अजिन' (२) शब्दो दृष्टव्यः । 361. चोदना-कर्मचोदना-[विग्रहपद्धत्यै 'कर्म' (६) शब्दो दृष्टव्यः ।। 362. व्युत उयु-अच्युत-च्युतिः यस्य न भवति सः अच्युतः । संबोधने विसर्गलोपः । 363. छिन्न छिद्-(१) छिन्नद्वैधाः । (२) छिन्नसंशयः । (३) छिन्नाभ्रम् ।-(१) छिन्नः द्विधाभावः येषां ते छिन्नद्वैधाः । (२) छिन्नाः संशयाः यस्य सः छिन्नसंशयः। (३) छिन अभ्रम् छिनाभ्रम् । 251 For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy