SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Secondary Word-Units 150. आत्मन्-(१) अध्यात्मम् । (२) अनात्मनः। (३) अन्तरात्मना । (४) अव्ययात्मा। (५) असक्तात्मा। (६) आत्मकारणात् । (७) आत्मतृप्तः (८) आत्मपरदेहेषु। (९) आत्ममायया। (१०) आत्मयोगात् । (५१) आत्मरतिः। (१२) आत्मवश्यः । (१३) आत्मविनिग्रहः । (१४) आत्मविभूतयः । (१५) आत्मविशुद्धये । (१६) आत्मशुद्धये । (१५) आत्मसंगविताः । (१८) आत्मसंस्थम् । (१९) आत्मौपम्येन । (२०) कामात्मानः । (२१) जितात्मनः। (२२) जितात्मा। (२३) ज्ञानविज्ञानतृप्तात्मा। (२४) तदात्मानः। (२५) धर्मात्मा। (२६) नष्टात्मानः। (२७) नियतात्मभिः । (२८) परमात्मा। (२९) प्रयतात्मनः । (३०) प्रशान्तात्मा। (३१) प्रसन्नात्मा। (३२) ब्रह्मयोगयुक्तात्मा । (३३) महात्मनः। (३४) महात्मन् । (३५) महात्मा। (३६) महात्मानः । (३७) यतचित्तात्मा। (३८) यतात्मवान् । (३९) यतात्मा। (४०) यतात्मानः । (४१) युक्तात्मा। (४२) योगयुक्तात्मा। (४३) वश्यात्मना। (४४) विजितात्मनाम् । (४५) विजितात्मा। (४६) विदितात्मनाम् । (४७) विधेयात्मा । (४८) विमूढात्मा। (४९) विशुद्धात्मा । (५०) सन्न्यासयोगयुक्तात्मा । (५१) संशयात्मनः । (५२) संशयात्मा । (५३) सर्वभूतात्मभूतात्मा।-(१)[विग्रहपद्धत्ये 'अधि' (५) शब्दो दृष्टव्यः]। (२) न आत्मा अनात्मा, तस्य अनास्मनः। (३-५) [ विग्रहपद्धतिभ्यः 'अन्तर्' (१), 'अव्यय', 'असक्त' (२) शब्दाः क्रमेण दृष्टव्याः] । (६) आत्मनः कारणम् आत्मकारणम् , तस्मात् आत्मकारणात् । (७) आत्मनि (हृदये) यः तृप्तः सः आत्मतृप्तः। (८) आत्मनः परेषां च देहाः आत्मपरदेहाः, तेषु आत्मपरदेहेषु। (९) आत्मनः (स्वस्य) माया आत्ममाया, तया आत्ममायया। (१०) आत्मनः (स्वस्य) योगः आत्मयोगः, तस्मात् आत्मयोगात् । (११) आत्मनि (स्वस्मिन् ) रतिः यस्य सः आत्मरतिः। (१२) आत्मानं वश्यामि आत्मवश्यानि, तैः आत्मवश्यैः । ( १३ ) आत्मनः (मनसः इन्द्रियाणां च) विनिग्रहः आत्मविनिग्रहः । (१४) आत्मनः (स्वस्य) विभूतयः आत्मविभूतयः। (१५) आत्मनः (स्वस्य अन्तःकरणस्य) विशुद्धिः आत्मविशुद्धिः, तस्यै आत्मविशुद्धये। (१६) आत्मनः (स्वस्य अन्तःकरणस्य) शुद्धिः आत्मशुद्धिः, तस्यै आत्मशुद्धये। (१७) आत्मना (स्वेन) एव संभाविताः आत्मसंभाविताः। (१८) आत्मनि (हृदये) संस्थितम् आत्मसंस्थम् । (१९) आत्मना औपम्यम् (उपमायाः भावः) आत्मौपम्यम् , तेन आत्मौपम्येन । (२०) कामः आत्मा (स्वभावः) येषां ते कामात्मानः। (२१-२२) जितः आत्मा (स्वभावः), येन सः जितात्मा; तस्य जितात्मनः । (२३) ज्ञानेन विज्ञानेन च तृप्तः आत्मा (हृदयं) यस्य सः ज्ञानविज्ञानतृप्तात्मा। (२४) तदेव (तदभिन्नः) आत्मा (अन्तःकरणं) येषां ते तदात्मानः। (२५) धर्मः एव आत्मा (स्वभावः) यस्य सः धर्मात्मा। (२६) नष्टः आत्मा (विवेकबुद्धिः) येषां ते नष्टात्मानः। (२७) नियतः आत्मा (स्वभावः, इन्द्रियसंघातः वा) यैः ते नियतात्मानः, तैः नियतात्मभिः । (२८) परमः (सर्वश्रेष्ठः) आत्मा परमात्मा। (२९) प्रयतः (प्रकर्षेण यतः, नियन्त्रितः) आत्मा (चित्तं स्वभावः वा) येन सः प्रयतात्मा, तस्य प्रयतात्मनः। (३०) प्रशान्तः आत्मा (चित्तं स्वभावः वा) यस्य सः प्रशान्तात्मा। (३१) प्रसन्नः आत्मा (अन्तःकरणं) यस्य सः प्रसन्नात्मा। (३२) ब्रह्मयोगयुक्तः [ब्रह्मयोगेन (ब्रह्मणः योगः 235 HTHHTHHTHHHHI For Private and Personal Use Only
SR No.020166
Book TitleBhagwad Gita Vivechanatmak Shabdakosh
Original Sutra AuthorN/A
AuthorPrahlad C Divanji
PublisherMunshiram Manoharlal Publishers Pvt Ltd
Publication Year1993
Total Pages411
LanguageEnglish, Sanskrit
ClassificationDictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy