________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
READHA
गुणहेतुकं भवहेतुकं च । देवनारकाणां भवहेतुकं, श्राद्धसाधूनां गुणहेतुकं स्यात् । तस्य आवरणं अवधिज्ञानावरणं ।३। मनःपर्यवज्ञानावरणं मनःपर्यायज्ञानं सार्द्धद्वितीय द्वीपसमुद्रस्थितसंज्ञिपंचेंद्रियमनोविषयं द्विभेदं ऋजुमति विपुलमति रूपं साधूनामेव भवति । तस्य आवरणं मनःपर्यवज्ञानावरणं ।४। केवलज्ञानावरणं घनघातिचतुष्टयक्षयसमुत्पन्नं सकललोकालोकविषयं केवलज्ञानं तस्य आवरणं केवलज्ञानावरणं ।५। तथा अंतरायपंचकं व्याख्यायते । तच्च दानांतराय-लाभांतराय-भोगांतराय-उपभोगांतराय -वीर्यातराय रूपं । येन कर्मणा वित्ते पात्रे च प्राप्ते. सति दानफलं जाननपि न ददाति तद्दानांतराय ।१ येन सामग्रीसमायोगेऽपि लाभो न स्यात् तल्लाभांतरायं ।२ येन भोग्यवस्तुप्राप्तावपि भोक्तुं न लभते तद्भोगांतरायं ।३ येन उपभोग्यवस्तुषु विद्यमानेष्वपि भोक्तुं न शक्नोति तत् उपभोगांतरायम् ।४ येन नीरोगोऽपि वयस्थो हीनबल: स्यात् तद्वी-तरायं ५ पंचकद्वयमीलने दशकं ज्ञातव्यम् । अथ द्वितीये कर्मणि नवभेदाः। ते चेत्थं । चत्वारि दर्शनावरणानि पंच निद्राश्च । तत्र दर्शनावरणानि चक्षुर्दर्शनावरणं-अचक्षुर्दर्शनावरण-अवधि दर्शनावरणं केवलदर्शनावरणं । येन चक्षुर्दर्शनमावियते तच्चक्षुर्दर्शनावरणम् ११ येन अपरेंद्रियदर्शनमात्रियते तत् अचक्षुर्दर्शनावरणम् १२ येन अवधिदर्शनमात्रियते तत् अवधिदर्शनावरणं । १३ येन केवलदर्शनमात्रियते तत् केवलदर्शनावरणम् । १४ घटपटादिसार्थसामान्याकारपरिज्ञानं दर्शनं ज्ञातव्यम् । पदार्थविशेषाकार परिज्ञानं पुनर्ज्ञानं ज्ञातव्यं । अयमेवं च ज्ञानदर्शनयोर्भेदः । अथ निद्रापंचकं निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला-स्त्यानदि लक्षणं । तत्र यस्यांसत्यां सुखेन जागर्ति सा निद्रा । १५ यस्यां पुनर्दुःखेन जागति सा निद्रानिद्रा । १६ स्थितस्य उपविष्टस्य वा या (निद्रा) समागच्छति सा प्रचला । १७ मार्गे गच्छतः स्वतः या समागच्छति सा प्रचला-प्रचला । १८ या दिनचिंतितं कार्य रात्रौ
A
ROHRSHA
For Private and Personal Use Only