________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
AAS
न. त.
नामकर्म येन जीवा निजपर्याप्तियुक्ता भवति । ३ प्रत्येक नामकर्म येन एकस्मिन् जीवशरीरे एक एव जीवः। ४ येन बहवो जीवा एकशरीरे भवंति तत्साधारणं नामकर्म .पापप्रकृतिमध्ये कथयिष्यते । स्थिरनामकर्म येन जीवानां दंतास्थ्यादि स्थिरं स्यात् । ५ शुभनामकर्म येन जीवानां नाभेरूवंशरीरं शुभं स्यात् । ६ सुभग नामकर्म येन जीवः सर्वजनवल्लभः स्यात् । ७ सुस्वरनामकर्म येन जीवानां माधुर्यादिगुणः सुस्वरः स्यात् । ८ आदेयनामकर्म येन जीवः सर्वजनमान्यवचनः स्यात् । ९ यश-कीर्तिनामकर्म येन जीवो यशःकीर्ति युक्तो भवति । १० एवं द्विचत्वारिंशद्भेदभिन्नं तृतीयं पुण्यतत्त्वं प्ररूपितम् ।
इति पुण्यतत्त्वम्
rea अथ चतुर्थ पापतत्त्वं कथ्यते नाणंतरायदसगं, नव वीए नीअ साय मिच्छत्तं । थावरदस नस्यतिगं, कसायपणवीस तिरियदुगं ॥१३॥ इग वि ति चउ जाईओ, कुखगइ उवघाय हुंति पावस्स । अपसत्थं वण्णचउ, अपढम संघयण संठाणा ॥१४॥
नाणंतरायदसगं इति इगवितिइति-ज्ञानावरणीयपंचकं, पंचकं अंतराय च एवं दशकं ज्ञातव्यं । ज्ञानावरणपंचकं उच्यतेमतिज्ञानावरणं १ श्रुतज्ञानावरणं २ अवधिज्ञानावरणं ३ मनःपर्यायज्ञानावरणं ४ केवलज्ञानावरणं ५। तत्र मतिज्ञानावरणं पंचभिः | इंद्रियैः षष्ठेन मनसा जीवस्य यद् ज्ञानं स्यात् तन्मतिज्ञानम् । तस्य आवरणं मतिज्ञानावरणं ।१। श्रुतं द्विधा द्रव्यश्रुतं भावश्रुतं च द्रव्यश्रुतं द्वादशांगीलक्षणं । भावश्रुतं द्वादशांगीसमुत्पन्नोपयोगरूपं तस्य श्रुतज्ञानस्य आवरणं श्रुतज्ञानावरणं ।२। अवधिज्ञानं द्विप्रकार
बाकर
ॐA
RESS
॥५॥
For Private and Personal Use Only