________________
Shri Mahavir Jain Aradhana Kendra
श्री. वि०
॥२३॥
www.kobatirth.org
समसहस्सा ॥ १ ॥ " श्लक्ष्णा-मरुस्थल्यादिगता पृथ्वी १ शुद्धा - कुमारमृत्तिका २, वालुकाः सिकताः ३, मनःशिला - प्रसिद्धा ४, शर्करा - दृपत्कर्करिका ५, खरपृथ्वी - शिलापापाणरूपा ६, आसां षण्णामपि क्रमादुत्कृष्टस्थितिरेको द्वादश चतुर्दश षोडशाष्टादश द्वाविंशतिः वर्षाः समाः सहस्रास्तावन्मितवर्षसहस्रा इत्यर्थः ॥ ३४ ॥
इत्युदिता पृथ्व्यादीनामुत्कृष्टायुः स्थितिः, द्वीन्द्रियादीनामथोत्कृष्टायुः स्थितिं स्पष्टयन्नाह -
वासाणि वारसाऊ, बेइंदियाणं तेइंदियाणं च । अउणापन्नदिणाणं, चउरिंदीणं तु छम्मासा ॥ ३५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्यापा- आयुः शब्दः प्रत्येकमभिसम्बध्यते । वर्षाणि द्वादश द्वीन्द्रियाणामुत्कृष्टायुः स्थितिः । त्रीन्द्रियाणां त्वेकोनपञ्चाशदिनान्युत्कृष्टायुःस्थितिः । अत्र च्छन्दोभङ्गभयात् इस्वरस्य पृथगभिधानं । चः पृथगभिधाने । चतुरिन्द्रियाणां तु षण्मासा उत्कृष्टायुः स्थितिः । तुरेवार्थे । इति गाथाक्षरार्थः ।। ३५ ।।
द्वीन्द्रियादीनामुत्कृष्टायुः स्थितिमभिधाय देवादीनां चतुर्णामपि पञ्चेन्द्रियाणामुत्कृष्टायुः स्थिर्ति विवृण्वन्नाह-सुरनेरइयाण दिई, उक्कोसा सागराणि तित्तीसं । चउपयतिरियमणुस्सा, तिन्निय पलिओवमा हुंति ॥ ३६ ॥
व्याख्या सुरनारकाणामुत्कृष्टायुः स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि । उभयोस्तुल्यस्थितिकत्वादुत्कृष्टस्थितावित्ये कत्राभिधानं । तथा (चतुष्पद तिर्यग्मनुष्याणां त्रीणि पल्योपमा नि यदुक्तं "मणुआण सम गयाई, हयाई चउरंसऽजाइ अहंसा । गोमहिमुट्टखराई, पर्णससाणाइदसमंसा || १ || इच्चाइ तिरिच्छाण वि, पायं सन्धारएस सारिच्छं" इति। प्रायो बाहुल्येन सर्वारकेषु मनुजायुः समायुषो गजसिंह
For Private and Personal Use Only
सटीक.
॥२३॥