SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatiran.org Acharya Shn Kailassagarsun Gyanmandir AURANCE सहस्राणामधस्ताद्भवनानि अन्यत्र चोपरितनमधस्तनं च योजमसहसं मुक्त्वा सर्वत्रापि यथासंभवमावासा इत्यपि । तत्त्वं तु केवलिनो विदन्ति । परं नरकप्रस्तटान्तराले भवनपतय इति संगम्यं । उक्तं च-"बारसमु अंतरेसुं, इक इक्कं अहोवरिं पुत्तुं । मनंतरेसु जाई, वसंति दस भवणवासीणं ॥१॥" सुगमाथैव । परं रत्नप्रभायां त्रयोदश नरकप्रस्तटास्तेषु द्वादशान्तराणि तेभ्य एकमुपर्येकमधोऽन्तरमपनीयते शेषेषु दशस्वन्तरेषु भवनवासिन इति तापर्यमिति । एषां दशानामपि एकैकस्मिन्निकाये द्वौ द्वाविन्द्रौ स्यातां, दक्षिणोत्तरश्रेण्याश्रयणात्, सर्वाग्रेण चमरादयो विंशतिरिन्द्रा भवेयुरिति । तथैतेषां भवनसङ्ख्यावगाहनाशक्तिवर्णायुश्चिह्नादयो नात्र लिख्यन्ते, सूत्रकृतापि प्रस्तुतं नोपदर्शितमतोऽन्यशास्त्रेभ्योऽवसेयमिति । अथ भवनवासिवक्तव्यतां निरूप्य गाथाया द्वितीयपादेन व्यन्तराणां सूचयति-"अट्टविह त्ति" विविधमन्तरं वनान्तरादिकमाश्रयतया येषां ते व्यन्तराः । तथाक्नानामन्तरेषु शैलान्तरेषु कन्दरान्तरेषु वसन्ति तत्प्रसिद्धमेव यथा (अथवा विगतं) भृत्यवच्चक्रवर्त्याचाराधकत्वेन (अन्तरं ) विशेषो मनुष्येभ्यो येषां ते व्यन्तराः । तथा वनानामन्तरेषु भवाः पृषोदरादितान्मागमे वानमन्तरा इत्यपि । तेऽष्टविधाः अष्टप्रकारा भवन्ति । ते चामी-पिशाचाः १ भूताः २ यक्षाः ३ राक्षसाः ४ किन्नराः ५ किंपुरुषाः ६ महोरगाः ७ गन्धर्वाः ८ इति । अर्थतेषां क्वावस्थानं ? तदाह-"रयणाइ पदमजोयण-सहसे इक्विकसयमहोवरि मुत्तुं । अट्ठसयए अट्ट य, वितरजाईउ पत्तेयं ॥१॥" पुनरन्ये त्वष्टप्रकारा व्यन्तराः, तद्यथा-"एवं १ द्वादशस्वन्तरेषु एकमेकमध उपरिच मुक्त्वा । मध्यान्तरेषु जातयो वसन्ति भवनवासिनाम् ॥ १॥ २ स्नायाः प्रथमे योजनसहने एकमेकं शतमध उपरि च मुक्त्वा । अष्टसु शतेपु भष्टौ च व्यन्तरजातयः प्रत्येकम् ॥ २ ॥ ३ एवं प्रथमे शते योजनदशकमध उपरि च मुक्त्वा । अष्टसु दशकेषु जातयः अणप्रज्ञाद्याः परिवसन्ति ।। १॥ अणप्रज्ञः (अर्णपत्री) पञ्चप्रज्ञः ऋषिवादी भूतवादी चैव । क्रन्दी च महाक्रन्दी कूष्माण्डश्चैव पतङ्गश्च ॥ २ ॥ नऊॐॐॐॐॐ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy