________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
L
जी. वि०
सटीक.
वक
एकान्तराहाद्भवति । तथै तेषामेकोनाशी तिर्दिनान्यपत्यपालनभावतश्चेति । अथ सूत्रपदं व्याख्यानयति-तत्र मनुष्यशब्दस्य निरुक्तिः मनोरपत्य मानुष्यः मनोर्याणौ पश्चान्तः(६-१-९४)यप्रत्यये मनुष्यः अण्प्रत्यये मानुषः मानवानि (इ) ति, पुनः के मनुष्याः? आन्तरद्वीपाः समुद्रान्तभूतषट्पश्चाशद्वीपसमुद्भवाः । चः समुच्चये । इत्युक्ता एकोत्तरशतक्षेत्रसमुद्भवा मनुष्याखिविधाः । अथ प्रक्रमाद्देवभेदान् विवृण्वन्नाह-" दसहा." पूर्व तावदेवानां चत्वारो भेदा भवनाधिपतिव्यन्तरज्योतिष्कवैमानिकादिकभेदैर्भवन्ति । इह प्रस्तावाद्भवनाधिपतीनां नामान्वयसङ्ख्याविशेष व्यक्तीकुर्वमाह-तत्र सामान्येन भवनवसनशीला भवनवासिनः । यद्यपि कायमानसभिभेषु परमरमणीयकभूमिषु आवासापरनामसु महामण्डपेषु प्रायोऽसुरकुमाराः परिवसन्ति कदाचिदेव भवनेषु । शेषास्तु नागकुमारादयो भूम्ना भवनेषु कदाचिच्चावासेष्विति । स्थानस्थानिनोरभेदाद्भवना असुरकुमारादयो देवास्तेषामधिपतय इन्द्रा भवनाधिपतयश्चेति । ते दशधा, तद्यथा-"असुर १ नाग २ तडित् ३ सुवर्ण ४ अग्नि ५ द्वीप ६ उदधि ७ दिक ८ पवन ९ स्तनिताः १०"। एतेऽसुरादयो दशापि कुमाराः शान्ता (कुमारशब्दान्ता) शेयाः । अथ ते का वसन्ति ? तदर्शयति, तथाहि"इह मंदरस्स हिवा, पुढवी रयणप्पहा मुणेयव्वा । तिसु भागेमु विभत्ता, अस्सीयं जोयणं लक्ख ॥ १॥ तत्थेव भवणवासी देवा निवसंति दोसु भागेसु । तइए पुण नेर:या, डवंति बहुवेयणा निययं ॥२ ।" क्वचिदित्यपि दृश्यते-ऊर्ध्वाध एकं सहस्र मुक्त्वा एकलक्षाप्टसप्ततिसहस्रबहुमध्ये रुचकाधोऽष्टशतयोजनेषु भवनपतिस्थितिः, शेषे तु नारकाणामिति दृश्यते । अन्ये वाहुः-नवतियोजन
१ इह मन्दरस्याधस्त त् पृथ्वो रत्नप्रभा मुणिनव्या त्रिभि गर्विभक्ता अशीतिसहस्राधिक लक्ष योजनानाम् ॥१॥ तत्रैव भवनवामिनो देवा निवसन्ति यो गयो : तृतीये पुनःरथिका भवन्ति बहुवेदनाः सततम् ॥ २ ॥
Rॐॐॐॐॐॐ
॥१५॥
AER
For Private and Personal Use Only