SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir A द.प्र० सटीक. ॥४॥ RRC5 रुपाः । संयोगे एवं द्वादश उपयोगाः स्युरित्यर्थः । उत्पद्यन्ते (पपत्तिः) उपपातः। च्यवन्ते चेति (च्युतिः) च्यवनं । जीवानां उपपातच्यवनयोरिहापि सम्बन्धादुपपातच्यवनविषययोविरहकाललक्षण-अपान्तरालकाललक्षणमेकसमयसङ्ख्या चेति गृह्यते इत्यध्याहारः। तिष्ठन्ति नरकादिभवे श्रृङ्खलाबद्धा इव जन्तवः पाप(पुण्य)कर्मपरिणत्या स्थितिरायु वितमित्येकार्थाः। ‘पज्जत्तित्ति' आहारादीनामत्र निर्वृत्तिनिष्पत्तिर्यतो दलिकाद्-दलभूतात्पुद्गलसमुहाद् भवति तस्य दलिकस्य तामेवाहाराधभिनिवृत्ति स्वस्वविषयपरिणमनरूपां प्रति यत् करणं जीवसम्बन्धिशक्तिरूपं सा पर्याप्तिः । ताश्च पोढा आहुः, यथा-आहारशरीरेन्द्रियश्वासोच्छवासभाषामनःस्वरूपाः । किमाहारेत्ति० किमाहारकोऽनाहारको वा जीवः ? यद्वा किंस्वरूपः सचित्तादि आहारकः ? केन वा शरीरेणादारोऽस्येति किमाहारः ? । आहरणं आहारः । सन्नीत्ति० विशिष्टा संज्ञास्तिस्रः। यया त्रिकालविषयमर्थ जानाति | सा दीर्घकालिकी(क्ये)वसमनस्कानामेव । यश्च स्वदेहपालनतोरिष्टवस्तुषु प्रवर्तने अहिताच निवर्तते वर्तमानकालविषयं च चेतन ज्ञानं यस्य तस्य हेतुवादोपदेशिकीसंज्ञा द्वीन्द्रियादीनामेव । यश्च सम्यग्दृष्टिः क्षापोपशमिकज्ञानयुक्तो यथाशक्तिहेयोपादेयनिग्रहपरसस्य दृष्टिवादोपदेशिकीसंज्ञा छद्मस्थसम्यग्दृशामेव इति संज्ञात्रिकमबमन्तव्यं । गमनं गतिः । आगमनमागतिः । अथ वेदत्रयमाह-पुवेदः स्त्रीवेदः नपुंसकवेदः । प्रज्ञापनादिषु विस्तरेणाभिहिताः अर्थाः ततः संक्षिप्य गृह्यन्ते प्रतिपाद्यन्तेऽभिधीयन्ते वाऽस्यामिति ग्रहेरणिरित्यौणादिके अणिप्रत्यये डीप्रत्यये च सङ्ग्रहणीति निष्पन्नं । संक्षेपतो द्वारगाथाद्वयस्य व्याख्यानं कृतमित्यर्थः । अत्र चकारः समुच्चयार्थः ॥ ३ ॥ ४ ॥ ॥४॥ For Private and Personal Use Only
SR No.020151
Book TitleChatvari Prakaranani
Original Sutra AuthorN/A
AuthorIndrasenvijay Gani, Sinhsenvijay Gani
PublisherJain Granth Prakashak
Publication Year1986
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy