SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एकदा सभायां नृपेणोक्तम्-"राजकुले महान्विनयः।" आचारभिहितम्-“गुरुकुले महीयान्वि-1 नयः।" तत आचार्याः प्राहु:-“यो वः परमभक्तो राजपुत्रोऽस्ति । स आहृयताम् , इदं च तस्मै कथ्यताम्'गत्वा विलोकय गङ्गा कि पूर्ववाहिनी? किंवा पश्चिमवाहिनी ? इति,' आहूतो राजपुत्रः, प्रहितश्च विलोकनाय, यत्र तत्र भ्रमित्वा समागतः, भाषितो भूपालेन-"विलोकिता गङ्गा, किं पूर्ववाहिनी ? पश्चिमवाहिनी? इति वा" । अथ राजपुत्रः प्रचख्यो-“किमत्र विलोकनीयम् ? बाला अपि विदन्ति, 'गङ्गा पूर्ववाहिनी' गत्वा च विलोकिता मया, पूर्ववाहिन्येवास्ते।" राजा श्रुत्वाऽस्थात् । सूरिभिः साधुः स्वस्तस्मै कर्मणे प्रहितस्तत्र गतः । दण्डकं प्रवाह्य व्यलोकत, पूर्ववाहिनी सुरवाहिनी । उपसूरि समागतः, अभाषत-"अहं गङ्गा पूर्ववाहिनीं पूर्वमश्रौषम् , गत्वाऽपश्यंश्च तथैवाज्ञासिषम्, तत्त्वं तु सद्गरवो विदन्ति ।” एतच्च राजपुत्रयत्योश्वरितं राजसूर्योः प्रच्छन्नचरैरुक्तम् । राजा मेने एव-" महियान् गुरुकुले विनयः।' ततः पठ्यते निवपुच्छिण गुरुणा भणिओ गंगा कओमुही वहइ । संपाइयवं सीसो जह तह सवत्थ कायब्वम् ॥१॥ __ पाटलिपुत्रादथ सूरीन्द्रो लाटान्गतः । तत्रैकस्मिन्पुरे बालैः सह क्रीडति । मुनयो गोचरचर्यार्थ गताः। तावता श्रावकाः प्रवन्दनार्थमायाताः। आकारसंवृत्योपविष्टः प्रभुः। श्राद्धेषु गतेषु पुनरपवरकमध्यं गत्वा | खेलति । तावता केऽपि वादिनः समायाताः तैर्विजनं दृष्ट्वा 'कूकुडूकू' इति शब्दः कृतः। सूरीन्द्रेण तु| For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy