SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir " अथ गुरवोऽवन्दिषत । गुरवो प्राहुः- “ यन्मन्तो दशकरान्तरस्थया त्वयाऽम्भः पीतं तत्ते पुत्रस्त्वत्तो दशयोजनान्तरितः स्थाता । पश्चादन्ये नवपुत्रा भवितारः सारश्रियः । " सा चम्पकमकरन्दपानमत्तमधुपध्वनिकोमलया गिरा बभाषे - " आद्य पुत्रो युष्मभ्यं दातव्यो मया' इत्युक्त्वा निजसदनमगमत् । भर्त्रे गुरुक्तं स्वोक्तं चाकथयत् । तुष्टः सः । श्रेष्ठिनी काले नागेन्द्रस्वप्नसप्रभावं पुत्रं प्रासूत । माङ्गल्योत्सवाः प्रसरन्ति स्म । गुरुसत्कः सन् वर्द्धते । नागेन्द्र इति नाम तस्य । शरीरावयवैर्गुणैश्च सकललोककमनीयैर्ववृधे । गुरुभिरागत्याष्टमे वर्षे दीक्षितः । मण्डनाभिधस्य मुनेः पार्श्वे पाठितः । बालोऽपि सर्वविद्यो जातः । एकदा गुरुणा जलार्थ प्रस्थापितो विहृत्यागत आलोचयति अंब तंबच्छीए अपुष्फियं पुप्फदंतपंतीए । नवसालिकं जियं नववहह कुडएण मे दिन्नम् ॥ १ ॥ इति गाथया गुरुभिर्भणितम् – “ पलित्तओ " शृङ्गारगर्भभणितिश्रवणात् । ' किल त्वं विनेयक ! रागाग्निना प्रदीप्तः ' इति भावः । नागेन्द्रेणाचचक्षे – “ भगवन् ! मात्रया एकया प्रसादः क्रियताम्, यथा ' पालित्तओ ' इति रूपं भवति । " अत्र को भावः १, गगनगमनोपायभूतां पादलेपविद्यां मे दत्त, येनाहं ' पादलिप्तक ' इत्यभिधीये । ' ततो गुरुभिः पादलेपविद्या दत्ता । तद्वशात्खे भ्रमति । दशवर्षदेशीयः For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy