SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विशति प्रवन्धः मा श्ववचनैः कुकुलानलकर्कशः पीडिताऽपि देवमुपालभते, न श्वश्रं निन्दति, चिन्तयति च " सम्वो पुवकयाणं कम्माणं पावा फलविवागं । अबराहेमु गुणेसु य निमित्तमित्तं परो होड ॥१॥" अन्यदा वैरोट्या भोगीन्द्रस्वप्नभूचितं गर्भ बभार । पायसभोजनदोहद उत्पन्नः । तदाऽऽचार्यनन्दिलनामा मरिझद्याने समवासार्षीत, सार्द्धनवपूर्वधरआर्यरक्षितस्वामिवत् । वैरोट्यायाः श्वश्रुरिति वक्ति-“ अस्या वध्वाः सुता भविष्यति, न तु सुतः, ” इति कर्णक्रकचकर्कशतद्वचःपीडिता मती सा सती वधूः मृरिवन्द| नार्थ गता । मरयो वन्दिताः । ततः स्वस्य श्वश्वा सह विरोधोऽकथि। मृरिभिरक्तम-" पूर्वकर्मदोषोऽयम् , | क्रोधो न वर्द्धनीयः भवहेतुत्वात् , वत्से! इह लोए चिय कोवो मरीरसंतावकलहवेराई । कुणइ पुणो परलोए नरगाइसुदारुणं दुकानं ॥१॥ पुत्रं च लप्स्यसे । पायसदोहदस्ने जातोऽस्ति । सोऽपि यथातथा पूरयिष्यते ।" इति सा मृरिवचसाऽऽ नन्दितचित्ता निजगृहमागच्छत् , अचिन्तयच्च"अस्माभिश्चतुरम्बुराशिरसनाविच्छेदिनी मेदिनी, भ्राम्यद्भिः स न कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः। यस्याग्रे चिरसश्चितानि हृदये दु:ग्वानि सौख्यानि वा, व्याख्याय क्षणमेकमर्द्धमथवा निःश्वस्य विश्रम्यते ॥१॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy