SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir यौद्धी व्यररचत्। पाणिरक्षां विधिवद्विधाय चलितः। सपादलक्षान्यविष्ट । भट्टेन आनाकनरेन्द्रमालीलपत् । यथा अये! भेक च्छेको भव भवतु ते कूपकुहरं शरण्यं दुर्मत्तः किमु रटसि वाचाट कटुकम् । पुरः सर्पो दी विषमविषपूत्कारवदनो ललजिह्वो धावत्यहह भवतो जिग्रसिषया ॥१॥ आनकोऽपि तदुद्दामशौण्डीयरिपुदतवचः श्रुत्वा लक्षत्रयाश्वेन नरलक्षदशकेन पञ्चाशता च मदान्धैर्गन्धगजैरचलत् । शाकम्भरीतः पञ्चक्रोश्यार्वागागतः। दिनत्रयेण युद्धं भविष्यतीति निर्णीतमुभाभ्यां राजेन्द्राभ्याम् । अन्योऽन्यमक्षान्दीव्यन्ति राजपुत्राः। योधयन्ति मल्लयोध-च्छुरीकार-मेष-वृषभ-महिष-गजान् । स्फोटयन्ति नालि केराणि। तावन्तमवकाशं लब्ध्वा सपादलक्षमापालेन निशि द्रव्यबलेन नहुलीयकेल्हणादयो राजकीयाश्चौलुक्यभक्ता भेदिताः स्वपक्षे कृताः। सर्वेषामेको मन्त्रः-"युद्धाय संनद्धव्यमेव न तु योद्धव्यम् । राजा चोलुक्य एकाकी मोचनीयः। शत्रुभिहन्यताम् ।” अर्थो हि परावर्त्तयति त्रिभुवनम् 'दधाति लोभ एवैको रङ्गाचार्येषु धुर्यताम् । आरङ्कशक्रं यन्नाद्य पात्राणि भुवनत्रयी ॥१॥ एनं च तेषां मन्त्रं चौलुक्योऽद्यापि न वेत्ति। अतः प्रातः राजा कुमारपालः कलहपश्चाननं पट्टहस्तिनं महामात्रश्यामलपार्धात्प्रेरयामास । तदस्थांस्तु चेष्टितैर्दुष्टान्निरणैषीत् । नृपेण गदितः श्यामल:-"किमर्थममी For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy