SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति हतश्वेत्तत्र तदा मन्मानुषाणामुपरि कृपा करणीया । उद्धृतश्चेदहं तंदा जितं जितम् ।” एवं व्याघ्रराजेन निगदिते आनाकेन बीटकं दत्तम् । विसृष्टोऽसौ । तत्सर्वं सावधानतया स्तम्भान्तरितया मया श्रुतम् । राज्ञि शुद्धान्ते गतेऽहं त्वदंद्रिसेवार्थमायाता । तस्मान्मा मनो मयि शोधकश्मालितं कार्षीः । एतहासीवचः श्रुत्वा चौलुक्यनियोगी चिन्तयति-" लब्धं शत्रुगृहमर्म । यतिष्येऽतः कार्यकरणाय ।" इति परामृशन् दासीम. भाषत-" याहि मृषा भाषिणि ! । कः स्त्रीवचसि विश्वासः। श्रूयते यन्न शास्त्रेषु यल्लोकेऽपि न दृश्यते । तत्कल्पयन्ति लोलाक्ष्यो जल्पन्ति स्थापयन्ति च ॥१॥" इत्यादि भाषित्वा तां व्यसाक्षीत् । स्वयं तु चतुरांश्चतुरो यामलिकानुपचौलुक्यं प्रास्थापयत्। विज्ञप्त्या चाज्ञापयत्-" सावधानः स्थेयम् । इत्थं इत्थं स्वामिपादानामुपरि शत्रुकृतं कपटं वर्तते । भरटकश्चिन्तनीयः।” चौलुक्यः सावधानस्तस्थौ। सोमवारे गतों राजा कर्णमेरुम् । प्रकटीभूतः पूर्वोक्तचेष्टया भरटकः। दृष्टमात्रमेव तं नृपो मल्लैरदीधरत् । कर्तिका च लब्धा । बद्धो व्याघ्रराजः । जल्पितश्च-" रे वराक ! जंगडकेन प्रेषितोऽसि?। सेवकस्त्वम् । सेवकस्य च हिताहितबिचारो नास्ति । स्वाम्यादेशवशंवदस्त्वं माभैः । मुक्तोऽसि । तमेव हनिप्यामि य एवं द्रोहमारचयति दुर्दुरूढः।” इत्युक्त्वा परिधाप्य व्यसृजत् । स्वयं तु सौधे गत्वा सामग्री For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy