SearchBrowseAboutContactDonate
Page Preview
Page 962
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३श अध्यायः] चिकित्सितस्थानम्। ३१६१ आदौ हृदयं रक्ष्यं तस्यावरणं पिबेटु यथालाभम् । मधु सर्पिर्मज्जानं गैरिकमथ गोमयरसं वा॥ इतुं सुपक्कमथवा काकं निष्पीड्य तद्रसं वामलम् । छागादीनां वास्तृग भस्म मृदं वा पिबेदाशु ॥ क्षारोऽगदस्तृतीये शोथहरं छईनं समध्वम्बु। गोमयरसश्चतुर्थे वेगे सकपित्थमधुसर्पिभिः॥ काकाण्डशिरीषाभ्यां स्वरसेनाश्चोतनाञ्जने नस्यम् । स्यात् पञ्चमेऽथ षष्ठे संज्ञासंस्थापन कार्यम् ॥ वेगे विरेकहरेत् । एवमादौ पूर्व हृदयं रक्ष्यम्, तस्य हृदयस्यावरणं विषवेगगमनवोधकरमावरणं यथालाभं पिबेत् । मधुप्रभृति। तत्र काकं सुपक्वं निष्पीड्य तस्य रसम्। छागादीनाममुक पिबेत्। भस्म मृदं वाशु पिबेत् । इति द्वितीये वेगे। सुश्रुते चोक्तम् । “समन्तादगदैर्दशं प्रच्छयिखा प्रलेपयेत् । चन्दनोशीरयुक्तेन वारिणा परिषेचयेत् ॥ पाययेतागदांस्तांस्तान् क्षीरक्षौद्रघृतादिभिः। तदलाभे हिता वा स्यात कृष्णा वल्मीकमृत्तिका॥ कोविदारशिरीषार्क-कटभीर्वापि भक्षयेत् । न पिबेत् तैलकौलत्थ-मद्यसौवीरकाणि च ॥ द्रवमन्यत् तु यत् किञ्चित् पीखा पीला समुद्वमेत् । प्रायो हि वमनेनैव मुखं निहि यते विषम् ॥ फणिनां विषवेगे तु प्रथमे शोणितं हरेत्। द्वितीये मधुसर्पिा पाययेताऽगदं भिषक् ॥” इति। क्षार इत्यादि। तृतीये विषवेगे क्षारोऽगदस्तथा समध्वम्बु शोथहरं वमनम्। चतुर्थे विषवेगे सकपित्थमधुसर्पिभियुक्तो गोमयरसः। पञ्चमे वेगे काकाण्डशिरीषाभ्यां स्वरसेन चक्षषि आश्च्योतनमञ्जनश्च दद्यात्, तथा नस्यश्च तयोः स्वरसेन कुर्यादिति । काकाण्डः कृष्णशिम्बी। अथ षष्ठे वेगे संशास्थापनं हिडकेटOरिमेदवचा- चोरक-वयस्था-गोलोमी-जटिला-पलङ्कषाशोकरोहिणीनां संशस्थापनीयानां द्वितीयवेगे इति शेषः। आदाविति सर्वोपक्रमादौ। तस्येति हृदयस्य । यथालाममिति वक्ष्यमाणहृदयावरणयोगेषु यथाप्राप्तिहृदयावरणम् ।क्षारोऽगदो वक्ष्यमाणं तद विशेषेण शोफहरमिति For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy